१४

विश्वास-प्रस्तुतिः

अथैनं प्राच्यां दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय ।

Haug

(Indra Inaugurated by Various Deities in the Various Directions to the Kingship, becomes Universal Ruler.)

The Vasavas then inaugurated him (Indra) in the eastern direction, during thirty-one days, by these three Rik verses, the Yajus verse, and the great words (all just mentioned), for the sake of obtaining universal sovereignty.

मूलम्

अथैनं प्राच्यां दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय ।

विश्वास-प्रस्तुतिः

तस्मादेतस्यां प्राच्यां दिशि ये के च प्राच्यानां राजानः साम्राज्यायैव ते ऽभिषिच्यन्ते ।

Haug

Hence all kings of eastern nations, in the eastern regions, are inaugurated to universal sovereignty,

मूलम्

तस्मादेतस्यां प्राच्यां दिशि ये के च प्राच्यानां राजानः साम्राज्यायैव ते ऽभिषिच्यन्ते ।

विश्वास-प्रस्तुतिः

सम्राळित्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

Haug

and called samrāj, i.e., universal sovereign, after this precedent made once by the gods.

मूलम्

सम्राळित्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

विश्वास-प्रस्तुतिः

अथैनं दक्षिणस्यां दिशि रुद्रा देवाः षड्भिश्चैव पञ्चाविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्भौज्याय ।

Haug

Then the Rudras inaugurated Indra in the southern region, during thirty-one days, with the three Rik verses, the Yajus and the great words (just mentioned), for obtaining enjoyment (of pleasures).

मूलम्

अथैनं दक्षिणस्यां दिशि रुद्रा देवाः षड्भिश्चैव पञ्चाविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्भौज्याय ।

विश्वास-प्रस्तुतिः

तस्मादेतस्यां दक्षिणस्यां दिशि ये के च सत्वतां राजानो भौज्यायैव ते ऽभिषिच्यन्ते ।

Haug

Hence all kings of living creatures (chiefly beasts) in the southern region are inaugurated for the enjoyment (of pleasures)

मूलम्

तस्मादेतस्यां दक्षिणस्यां दिशि ये के च सत्वतां राजानो भौज्यायैव ते ऽभिषिच्यन्ते ।

विश्वास-प्रस्तुतिः

भोजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

Haug

and called bhoja, i.e., enjoyer.

मूलम्

भोजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

विश्वास-प्रस्तुतिः

अथैनं प्रतीच्यां दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नैतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्याय ।

Haug

Then the divine Adityas inaugurated him in the western region, during thirty-one days, with those three Rik verses, that Yajus verse, and those great words, for obtaining independent rule.

मूलम्

अथैनं प्रतीच्यां दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नैतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्याय ।

विश्वास-प्रस्तुतिः

तस्मादेतस्यां प्रतीच्यां दिशि ये के च नीच्यानां राजानो ये ऽपाच्यानां स्वाराज्यायैव ते ऽभिषिच्यन्ते ।

Haug

Hence all kings of the Nîchyas and Apâchyas in the western countries, are inaugurated to independent rule,

मूलम्

तस्मादेतस्यां प्रतीच्यां दिशि ये के च नीच्यानां राजानो ये ऽपाच्यानां स्वाराज्यायैव ते ऽभिषिच्यन्ते ।

विश्वास-प्रस्तुतिः

स्वराळित्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

Haug

and called “independent rulers.”

मूलम्

स्वराळित्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

विश्वास-प्रस्तुतिः

अथैनमुदीच्यां दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्वैराज्याय ।

Haug

Then the Viśve Devāḥ inaugurated him during thirty-one days, in the northern region, by those three Rik verses, etc. for distinguished rule.

मूलम्

अथैनमुदीच्यां दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्वैराज्याय ।

विश्वास-प्रस्तुतिः

तस्मादेतस्यामुदीच्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायैव ते ऽभिषिच्यन्ते ।

Haug

Hence all people living in northern countries beyond the Himalaya, such as the Uttarakurûs, Uttaramadras, are inaugurated for living without a king (vairâjyam),

मूलम्

तस्मादेतस्यामुदीच्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायैव ते ऽभिषिच्यन्ते ।

विश्वास-प्रस्तुतिः

विराळित्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

Haug

and called Virāj,[3] i.e. without king.

Haug - Notes

[3]To this word two meanings can be given: 1 (without king;) 2 a very distinguished king. In this passage, we must take it in the first meaning; for here are janapadâḥ, i. e, people in opposition to the king mentioned, as abhiṣikta, i.e., inaugurated, whilst in all other passages of this chapter, we find instead of them, the râjânaḥ or kings.

मूलम्

विराळित्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

विश्वास-प्रस्तुतिः

अथैनमस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चा ऽऽप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय ।

Haug

Then the divine Sādhyas and Aptyas inaugurated Indra, during thirty-one days, in the middle region, which is a firmly established footing (the immovable centre) to the kingship (rājya).

मूलम्

अथैनमस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चा ऽऽप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय ।

विश्वास-प्रस्तुतिः

तस्मादस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपञ्चालानां राजानः सवशोशीनराणां राज्यायैव ते ऽभिषिच्यन्ते ।

Haug

Hence the kings of the Kurûpañchālas, with the Vaśas and Uśînaras, are inaugurated to kingship,

मूलम्

तस्मादस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपञ्चालानां राजानः सवशोशीनराणां राज्यायैव ते ऽभिषिच्यन्ते ।

विश्वास-प्रस्तुतिः

राजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

Haug

and called Kings (rājā).

मूलम्

राजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमनु ।

विश्वास-प्रस्तुतिः

अथैनमूर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः पारमेष्ठ्याय माहाराज्याया ऽऽधिपत्याय स्वावश्याया ऽऽतिष्ठायेति ।

Haug

Then the divine Marutas and Aṅgiras inaugurated him, during thirty-one days, in the upper (ûrdhva) region, for attaining fulfilment of the highest wishes, the position of a great king, of a supreme ruler, of an independant king, and long duration of his rule.

मूलम्

अथैनमूर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः पारमेष्ठ्याय माहाराज्याया ऽऽधिपत्याय स्वावश्याया ऽऽतिष्ठायेति ।

विश्वास-प्रस्तुतिः

स परमेष्ठी प्राजापत्यो ऽभवत् ।

Haug

Indra thus became, by means of this great inauguration ceremony, possessed of the power of obtaining anything wished for, as had been only the prerogative of Prajāpati.[4]

Haug - Notes

[4]This whole sentence is only a translation of the full import implied in the words, parameṣṭi prâjâpatya.

मूलम्

स परमेष्ठी प्राजापत्यो ऽभवत् ।

विश्वास-प्रस्तुतिः

स एतेन महाभिषेकेणाभिषिक्त इन्द्रः सर्वाजितीरजयत्सर्वाँ ल्लोकानविन्दत्सर्वेषां देवानां श्रैष्ठ्यमतिष्ठां परमतामगच्छत् ।

Haug

He conquered in all the various ways of possible conquest,[5] and won all people. He obtained the leadership, precedence, and supremacy over all gods.

Haug - Notes

[5]Lit., he conquered all the conquests (jitis, i.e., abhijiti, vijiti, saṁjiti, &c. See above)

मूलम्

स एतेन महाभिषेकेणाभिषिक्त इन्द्रः सर्वाजितीरजयत्सर्वाँ ल्लोकानविन्दत्सर्वेषां देवानां श्रैष्ठ्यमतिष्ठां परमतामगच्छत् ।

विश्वास-प्रस्तुतिः

साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यं जित्वा ऽस्मिँल्लोके स्वयम्भूः स्वराळमृतः ।

Haug

After having conquered the position of a samrāj (universal ruler), &c., he became in this world self-existing (svayambhûḥ), an independent ruler, immortal,[6]

Haug - Notes

[6]Here Sâyaṇa explains it as “long-lived.”

मूलम्

साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यं जित्वा ऽस्मिँल्लोके स्वयम्भूः स्वराळमृतः ।

विश्वास-प्रस्तुतिः

अमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा ऽमृतः समभवत्समभवत् ।

Haug

and, in the heaven-world, after having attained all desired wishes for, he became immortal (also).

मूलम्

अमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा ऽमृतः समभवत्समभवत् ।