अथैनम्प्राच्यां दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय तस्मादेतस्याम्प्राच्यां दिशि ये केच प्राच्यानां राजानः साम्राज्यायैव तेऽभिषिच्यन्ते सम्राळ् इत्येनान-भिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनं दक्षिणस्यां दिशि रुद्रा देवाः षड्भिश्चैव पञ्चाविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याबृतिभिर्भौज्याय तस्मादेतस्यां दक्षिणस्यां दिशि ये केच सत्वतां राजानो भौज्यायैव तेऽभिषिच्यन्ते भोजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनम्प्रतीच्यां दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशैरहोभि-रभ्यषिञ्चनु एतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्याय तस्मादेतस्याम्प्रतीच्यां दिशि ये केच नीच्यानां राजानो येऽपाच्यानां स्वारा-ज्यायैव तेऽभिषिच्यन्ते स्वराळ् इत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमुदीच्यां दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्य-षिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्वैराज्याय तस्मादेतस्या-मुदीच्यां दिशि ये केच परेण हिमवन्तं जनपदा उत्ततकुरव उत्तरमद्रा इति वैराज्यायैव तेऽभिषिच्यन्ते विराळ् इत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमस्यां ध्रुवायाम्मन्ध्यमायाम्प्रतिष्ठायां दिशि साध्याश्चाप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनतिएन च यजुषैताभिश्च व्याहृतिभी राज्याय तस्मादस्यां ध्रुवायाम्मध्यमायाम्प्रतिष्ठायां दिसि ये केच कुरुपञ्चालानां राजानः सवशोशीनराणां राज्यायैव तेऽभिषिच्यन्ते राजेत्येनान-भिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमूर्ध्वायां दिशि मरुत-श्चाङ्गिरसश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजु-षैताभिश्च व्याहृद्भिः पारमेष्ठ्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठा-येति स परमेष्ठी प्राजापत्योऽभवत्स एतेन महाभिषेकेणाभिषिक्त इन्द्रः सर्वा जितीरजयत्सर्वाँ ल्लोकानविन्दत्सर्वेषां देवानां श्रैष्ठ्यमतिष्ठाम्परमातमगछ-त्साम्राज्यम्भौज्यं स्वाराज्यं वैराज्यम्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यं जि-त्वास्मिँ ल्लोके स्वयम्भूः स्वराळ् अमृतोऽमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत् १४
३