१३

नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठाय सुक्ततुरिति तमेतस्यामासन्द्यामासीनम्प्रजापतिः पुरस्तात्तिष्ठन्प्रत्यङ्मुख औदुम्ब-र्यार्द्र या शाखया सपलाशया जातरूपमयेन च पवित्रेणान्तर्धायाभ्यषिञ्चदिमा आपः शिवतमा इत्येतेन तृचेन देवस्य त्वेति च यजुषा भूर्भुवः स्वरित्येताभिश्च

व्याहृतिभिः १३