अथात ऐन्द्रो महाभिषेकस्ते देवा अब्रुवन्सप्रजापतिका अयंवै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतम इममेवाभिषिञ्चामहा इति तथेति तद्वै तदिन्द्र मेव तस्मा एतामासन्दीं समभरन्नृचं नाम तस्यै बृहच्च रथंतरं च पूर्वौ पादावकुर्वन्वैरूपं च वैराजं चापरौ शाक्वररैवते शीर्षण्ये नौधसं च कालेयं चानूच्ये ऋचः प्राचीनातानान्सामानि तिरश्चीनवायान्यजूंष्यतीकाशान्यश आस्तरणं श्रियमुपबर्हणं तस्यै सविता च बृहस्पतिश्च पूर्वौ पादावधारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावनूच्ये स एतामासन्दी-मारोहद्वसवस्त्वा गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्नारोहन्तु तानन्वारोहामि साम्राज्याय रुद्रास्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहत साम्नारोहन्तु तानन्वारोहामि भौज्याया दित्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्नारोहन्तु तानन्वारोहामि स्वाराज्याय विश्वे त्वा देवा आनुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्नारोहन्तु तानन्वारोहामि वैराज्याय साध्याश्च त्वाप्त्याश्च देवाः पाङ्क्तेन छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्नारोहन्तु तानन्वारोहामि राज्याय मरुतश्च त्वाङ्गिरसश्च देवा अतिछन्दसा छन्दसा त्रयस्त्रिङ्शेन स्तोमेन रैवतेन साम्नारोहन्तु तानन्वारोहामि पारमेष्ठ्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठायारोहामीत्येतामासन्दीमारोहत्तमे-तस्यामासन्द्यामासीनं विश्वे देवा अब्रुवन्न वा अनभ्युत्क्रुष्ट इन्द्रो वीर्यं कर्तुम-र्हत्यभ्येनमुत्क्रोशामेति तैतिएति तां विश्वे देवा अभ्युदक्रोशन्निमं देवा अभ्यु-त्क्रोशत सम्राजं साम्राज्यम्भोजम्भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं राजानं राजपितरम्परमेष्टिनम्पारमेष्ठ्यं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूत-स्याधिपतिरजनि विशामत्ताजनि पुराम्भेत्ताजन्यसुराणां हन्ताजनि ब्रह्माणो गोप्ताजनि धर्मस्य गोप्ताजनीति तमभ्युत्क्रुष्टम्प्रजापतिरभिषेक्ष्यन्नेतयर्चाभ्यमन्त्रयत १२