पर्यू षु प्र धन्व वाजसतये परि वृत्रा भूर्ब्रह्म प्राणममृतम्प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये सह प्रजया सह पशुभिरणि सक्षणिर्द्विषस्तरध्या ऋणया न ईयसे स्वाहा अनो हि त्वा सुतं सोम मदामसि महे सम भुवो ब्रह्म प्राणममृतम्प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये सह प्रजया सह पशुभि र्यराज्ये वाजाँ अभि पवमान प्र गाहशे स्वाहा अजीजनो हि पवमान सूर्यं विधारे श स्वर्ब्रह्म प्राणममृतम्प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये सह प्रजया सह पशुभिः क्मना पयो गोजीरया रंहमाणः पुरंध्या स्वाहेत्यनार्तो ह वा अरिष्टोऽजीतः सर्वातो गुप्तस्त्रय्यै विद्यायै रूपेण सर्वा दिशोऽनुसंचरत्यैन्द्रे लोके प्रतिष्ठितो यस्मा एता ऋत्विगन्ततः कंसेन चतुर्गृहीतास्तिस्र आज्याहुतीरैन्द्रीः प्रपदं जुहोत्यथान्ततः प्रजातिमाशास्ते गवामश्वानाम्पुरुषाणामिह गावः प्र जायध्वमिहाश्वा इह पूरुषाः इहो सहस्रदक्षिणो वीरस्त्राता नि षीदत्विति बाहुर्ह वै प्रजया पशुभिर्भवति य एवमेतामन्ततः प्रजातिमाशास्ते गवामश्वानाम्पुरुषा-णामेष ह वाव क्षत्रियोऽविकृष्टो यमेवंविदो याजयन्त्यथ ह तं व्येव कर्षन्ते यथा ह वा इदं निषादा वा सेलगा वा पापकृतो वा वित्तवन्तम्पुरुषमरण्ये गृथीत्वा कर्तमन्वस्य वित्तमादाय द्र वन्त्येवमेव त ऋत्विजो यजमानं कर्तमन्वस्य वित्तमादाय द्र वन्ति यमनेवंविदो याजयन्त्येतद्ध स्म वै तद्विद्वानाह जनमेजयः पारिक्षित एवंविदं हि वै मामेवंविदो याजयन्ति तस्मादहं जया-म्यभीत्वरीं सेनां जयाम्यभीत्वर्या सेनया न मा दिव्या न मानुष्य इषव ऋछ-नियेष्यामि सर्वमायुः सर्वभूमिर्भविष्यामीति न ह वा एनं दिव्या न मानुष्य इषव ऋछन्त्येति सर्वमायुः सर्वभूमिर्भवति यमेवंविदो याजयन्ति याजयन्ति
११
२