१०

देवासुरा वा एषु लोकेषु संयेतिरे त एतस्याम्प्राच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्ते प्रतीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्त उदीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्त एतस्मिन्नवान्तारदेशे येतिरे य एष प्राङुदङ्ते ह ततो जिग्युस्तं यदि क्षत्रिय उपधावेत्सेनयोः समायत्योस्तथा मे कुरु यथाहमिमां सेनां जयानीति स यदि तथेति ब्रूयाद्वनस्पते वीड्वङ्गो हि भूया इत्यस्य रथोपस्थमभिमृश्याथैन-म्ब्रूयादातिष्ठस्वैतां ते दिशमभिमुखः संनद्धो रथोऽभि प्रवर्ततां स उदङ्स प्रत्यङ्स दक्षिणा स प्राङ्सोऽभ्यमित्रं इत्यभीवर्तेन हविषेत्येवैनमावर्तयेदथैन-मन्वीक्षेताप्रतिरथेन शासेन सौपर्णेनेति जयति ह तां सेनां यद्यु वा एनमु-पधावेत्संग्रामं संयतिष्यमाणस्तथा मे कुरु यथाहमिमं संग्रामं संजयानीत्येत-स्यामेवैनं दिशि यातयेज्जयति ह तं संग्रामं यद्यु वा एनमुपधावेद्रा -ष्ट्रादप-रुध्यमानस्तथा मे कुरु यथाहमिदं राष्ट्रम्पुनरवगछानीत्येतामेवैनं दिशमुपनि-ष्कतमवेत्तथा ह राष्ट्रम्पुनरवगछत्युपस्थायामित्राणां व्यपनुत्तिम्ब्रुवन्गृहानभ्ये-त्यप प्राच इन्द्र विश्वाँ अमित्रानिति सर्वतो हास्मा अनमित्रमभयम्भव-त्युत्तरोत्तरिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेताममि-त्राणां व्यपनुत्तिम्ब्रुवन्गृहानभ्येत्येत्य गृहान्पश्चाद्गृह्यस्याग्नेरुपविष्टायान्वातब्धाय ऋत्विगन्ततः कंसेन चतुर्गृहीतस्तिस्र आज्याहुतीरैन्द्रीः प्रपदं जुहोत्यनार्त्या

अरिष्ट्या अज्यान्या अभयाय १०