०९

विश्वास-प्रस्तुतिः

अथोदुम्बरशाखामभि प्रत्यवरोहति ।

Haug

(The Descent of the King from the Throne, after having been Inaugurated. The Mantras which he has to Repeat at this Occasion.)

He now descends (from the throne-seat), facing the branch of the Udumbara tree (which was placed in the ground).

मूलम्

अथोदुम्बरशाखामभि प्रत्यवरोहति ।

विश्वास-प्रस्तुतिः

ऊर्ग्वा अन्नाद्यमुदुम्बरः ।

Haug

The Udumbara being sap, and consequently a nourishing substance,

मूलम्

ऊर्ग्वा अन्नाद्यमुदुम्बरः ।

विश्वास-प्रस्तुतिः

ऊर्जमेव तदन्नाद्यमभि प्रत्यवरोहति ।

Haug

the king goes thus (to receive) these gifts (hidden in the Udumbara tree).

मूलम्

ऊर्जमेव तदन्नाद्यमभि प्रत्यवरोहति ।

विश्वास-प्रस्तुतिः

उपर्येवा ऽऽसीनो भूमौ पादौ प्रातिष्ठाप्य प्रत्यवरोहमाह प्रतितिष्ठामि द्यावापृथिव्योः प्रतितिष्ठामि प्राणापानयोः प्रतितिष्ठाम्यहोरात्रयोः प्रतितिष्ठाम्यान्नपानयोः प्रति ब्रह्मन्प्रति क्षत्त्रे प्रत्येषु त्रिषु लोकेषु तिष्ठामि ।

Haug

Being seated above, and having put both his feet on the ground, he announces his descent (facing the Udumbara, (by uttering the following words :) “I stand in the heavens, and on the earth; I stand in the air exhaled and inhaled; I stand on day and night; I stand on food and drink; I stand on Brahma, Kṣattra, and these three worlds.”

मूलम्

उपर्येवा ऽऽसीनो भूमौ पादौ प्रातिष्ठाप्य प्रत्यवरोहमाह प्रतितिष्ठामि द्यावापृथिव्योः प्रतितिष्ठामि प्राणापानयोः प्रतितिष्ठाम्यहोरात्रयोः प्रतितिष्ठाम्यान्नपानयोः प्रति ब्रह्मन्प्रति क्षत्त्रे प्रत्येषु त्रिषु लोकेषु तिष्ठामि ।

विश्वास-प्रस्तुतिः

अन्ततः सर्वेणा ऽऽत्मना प्रतितिष्ठति ।

Haug

Finally, he stands firmly through the universal soul (sarva-ātmā, which connects all the things just mentioned),

मूलम्

अन्ततः सर्वेणा ऽऽत्मना प्रतितिष्ठति ।

विश्वास-प्रस्तुतिः

सर्वस्मिन्ह वा एतस्मिन्प्रतितिष्ठति ।

Haug

and thence has a firm footing in the universe.

मूलम्

सर्वस्मिन्ह वा एतस्मिन्प्रतितिष्ठति ।

विश्वास-प्रस्तुतिः

उत्तरोत्तरिणीं ह श्रियमश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेतेन पुनरभिषेकेणाभिषिक्तः क्षत्त्रियः प्रत्यवरोहति एतेन प्रत्यवरोहेण ।

Haug

He obtains continuous prosperity. The king who descends, after having been inaugurated by the ceremony of Punarabhiṣeka in this way (from the throne-seat), obtains supremacy over his subjects, and royal power.

मूलम्

उत्तरोत्तरिणीं ह श्रियमश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेतेन पुनरभिषेकेणाभिषिक्तः क्षत्त्रियः प्रत्यवरोहति एतेन प्रत्यवरोहेण ।

विश्वास-प्रस्तुतिः

प्रत्यवरूह्योपस्थं कृत्वा प्राङासीनो नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्कृत्य ।

Haug

After having descended,[13] he then stands, inclining his body (upastham kṛitvā) with his face towards the east, and utters thrice the words, “Adoration to the Brahma!”

Haug - Notes

[13]Pratyavarûhya, instead of ruhya; long û, instead of short u, being a Vedic form.

मूलम्

प्रत्यवरूह्योपस्थं कृत्वा प्राङासीनो नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्कृत्य ।

विश्वास-प्रस्तुतिः

वरं ददामि जित्या अभिजित्यै विजित्यै सञ्जित्या इति वाचं विसृजते ।

Haug

Then he says aloud, “I present a gift for the attainment of victory (in general), of victory everywhere (abhijiti), of victory over strong and weak enemies (vijiti), and of complete victory (saṁjiti).”

मूलम्

वरं ददामि जित्या अभिजित्यै विजित्यै सञ्जित्या इति वाचं विसृजते ।

विश्वास-प्रस्तुतिः

स यन्नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्करोति ब्रह्मण एव तत्क्षत्त्रं वशमेति ।

Haug

By thus making thrice salutation to the Brahma, the Kṣattra comes under the sway of the Brahma,

मूलम्

स यन्नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्करोति ब्रह्मण एव तत्क्षत्त्रं वशमेति त्रिष्कृत्वो ब्रह्मणे नमस्कृत्य ।

विश्वास-प्रस्तुतिः

तद्यत्र वै ब्रह्मणः क्षत्त्रं वशमेति तद्राष्ट्रं समृद्धं तद्वीरवदाहास्मिन्वीरो जायते ।

Haug

and consequently the rule of the king becomes prosperous, and he will have issue.

मूलम्

तद्यत्र वै ब्रह्मणः क्षत्त्रं वशमेति तद्राष्ट्रं समृद्धं तद्वीरवदाहास्मिन्वीरो जायते ।

विश्वास-प्रस्तुतिः

अथ यद्वरं ददामि जित्या अभिजित्यै विजित्यै सञ्जित्या इति वाचं विसृजत एतद्वै वाचो जितं यद्ददामीत्याह ।

Haug

As regards (the mantra), “I present a gift for the attainment of victory,” &c., he emits Speech by it. For the words, “I give,” imply that Speech is conquered, (recovered, after having been silent).

मूलम्

अथ यद्वरं ददामि जित्या अभिजित्यै विजित्यै सञ्जित्या इति वाचं विसृजत एतद्वै वाचो जितं यद्ददामीत्याह ।

विश्वास-प्रस्तुतिः

यदेव वाचो जिता३म् तन्म इदमनु कर्म सन्तिष्ठाता इति ।

Haug

“When Speech is recovered, then (consequently) all this my performance shall be completed,”

मूलम्

यदेव वाचो जिता३म् तन्म इदमनु कर्म सन्तिष्ठाता इति ।

विश्वास-प्रस्तुतिः

विसृज्य वाचमुपोत्थाया ऽऽहवनीये समिधमभ्यादधाति समिदसि सम्वेङ्क्ष्वेन्द्रियेण वीर्येण स्वाहेति ।

Haug

having (so thinking) emitted Speech, he approaches the Ahavanîya fire, and puts a stick into it, reciting, “Thou art a wooden stick, become joined to the sharpness of senses and strength of the body, Svāhā!”

मूलम्

विसृज्य वाचमुपोत्थाया ऽऽहवनीये समिधमभ्यादधाति समिदसि सम्वेङ्क्ष्वेन्द्रियेण वीर्येण स्वाहेति ।

विश्वास-प्रस्तुतिः

इन्द्रियेणैव तद्वीर्येणा ऽऽत्मानमन्ततः समर्धयति ।

Haug

Finally, he succeeds thus in making himself sharpness of senses and valiant.

मूलम्

इन्द्रियेणैव तद्वीर्येणा ऽऽत्मानमन्ततः समर्धयति ।

विश्वास-प्रस्तुतिः

आधाय समिधं त्रीणि पदानि प्राङुदङ्ङभ्युत्क्रामति कॢप्तिरसि दिशां मयि देवेभ्यः कल्पत कल्पतां मे योगक्षेमो ऽभयं मे ऽस्तु इति ।

Haug

After having put the stick into the fire, he walks three steps towards the east and north, (and addresses the step he is taking thus): “Thou art the means of subduing the regions; ye (steps), make me capable of adoring (in the right manner) the gods; may I obtain my desires wished for and preserve what is granted to me, and safety.”

मूलम्

आधाय समिधं त्रीणि पदानि प्राङुदङ्ङभ्युत्क्रामति कॢप्तिरसि दिशां मयि देवेभ्यः कल्पत कल्पतां मे योगक्षेमो ऽभयं मे ऽस्तु इति ।

विश्वास-प्रस्तुतिः

अपराजितां दिशमुपतिष्ठते जितस्यैवापुनःपराजयाय ।

Haug

He now proceeds to the north-east, that is, to undo again a defeat.

मूलम्

अपराजितां दिशमुपतिष्ठते जितस्यैवापुनःपराजयाय ।

विश्वास-प्रस्तुतिः

तत्तदितीँ ३ ।

Haug

Such is the meaning (they say).

मूलम्

तत्तदितीँ ३ ।