०९

अथोदुम्बरशाखामभि प्रत्यवरोहत्यूर्ग्वा अन्नाद्यमुदुम्बर ऊर्जमेव तदन्नाद्यमभि प्रत्यवरोहत्युपर्येवासिनो भूमौ पादौ प्रातिष्ठाप्य प्रत्यवरोहमाह प्रतितिष्ठामि द्यावापृथिव्योः प्रतितिष्ठामि प्राणापानयोः प्रातितिष्ठाम्यहोरात्रयोः प्रातितिष्ठा-म्यान्नपानयोः प्रति ब्रह्मन्प्रति क्षत्रे प्रत्येषु त्रिषु लोकेषु तिष्ठामीत्यन्ततः सर्वेणा-त्मना प्रतितिष्ठति सर्वस्मिन्ह वा एतस्मिन्प्रतितिष्ठत्युत्तरोत्तरिणीं ह श्रियम-श्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेतेन पुनरभिषेकेणाभिषिक्तः क्षत्रियः प्रत्यवरोहत्येतेन प्रत्यवरोहेण प्रत्यवरूह्योपस्थं कृत्वा प्राङासीनो नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्माण इति त्रिष्कृत्वो ब्रह्मणे नमस्कृत्य वरं ददामि जित्या अभिजित्यै विजित्यै संजित्या इति वाचं विसृजते स यन्नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्करोति ब्रह्मण एव तत्क्षत्रं वशमेति तद्यत्र वै ब्रह्मणः क्षत्रं वशमेति तद्रा ष्ट्रं समृद्धं तद्वीरवदा हास्मिन्वीरो जायतेऽथ यद्वरं ददामि जित्या अभिजित्यै विजित्यै संजित्या इति वाचं विसृजत एतद्वै वाचो जितं यद्ददामीत्याह यदेव वाचो जितां तन्म इदमनु कर्म संतिष्ठाता इति विसृज्य वाचमुपोत्थायाहवनीये समिधमभ्यादधाति समिदसि सम्वेङ्क्ष्वेन्द्रि येण वीर्येण स्वाहेतीन्द्रि येणैव तद्वीर्येणात्मानमन्ततः समर्धय-त्याधाय समिधं त्रीणि पदानि प्राङुदङ्ङभ्युत्क्रामति कॢप्तिरसि दिशाम्मयि देवेभ्यः कल्पत कल्पताम्मे योगक्षेमोऽभयम्मेऽस्त्वित्यपराजितां दिशमुपतिष्ठते

जितस्यैवापुनःपराजयाय तैतदितीँ ९