०८

विश्वास-प्रस्तुतिः

अथ यदौदुम्बर्यासन्दी भवत्यौदुम्बरश्चमस उदुम्बरशाखोर्ग्वा अन्नाद्यमुदुम्बरः ।

Haug

(The Symbolical Meaning of the Different Implements and Liquids required for the Inauguration Ceremony. The Drinking of Spirituous Liquor (surâ) by the King.)

The reason that the throne-seat, the ladle, and the branch is of the Udumbara tree is because the Udumbara is vigour and a nourishing substance.

मूलम्

अथ यदौदुम्बर्यासन्दी भवत्यौदुम्बरश्चमस उदुम्बरशाखोर्ग्वा अन्नाद्यमुदुम्बरः ।

विश्वास-प्रस्तुतिः

ऊर्जमेवास्मिंस्तदन्नाद्यं दधाति ।

Haug

The priest thus places vigour in him (the Kings) as his nourishing substance.

मूलम्

ऊर्जमेवास्मिंस्तदन्नाद्यं दधाति ।

विश्वास-प्रस्तुतिः

अथ यद्दधि मधु घृतं भवत्यपां स ओषधीनां रसः ।

Haug

As to curds, honey, and melted butter, they represent the liquid (essence) in the waters and herbs.

मूलम्

अथ यद्दधि मधु घृतं भवत्यपां स ओषधीनां रसः ।

विश्वास-प्रस्तुतिः

अपामेवास्मिंस्तदोषधीनां रसं दधाति ।

Haug

The priest, therefore, places the essence of the waters and the herbs in him.

मूलम्

अपामेवास्मिंस्तदोषधीनां रसं दधाति ।

विश्वास-प्रस्तुतिः

अथ यदातपवर्ष्या आपो भवन्ति तेजश्च ह वै ब्रह्मवर्चसं चा ऽऽतपवर्ष्या आपः ।

Haug

The rain water fallen during sunshine, represents the splendour and lustre of sanctity,

मूलम्

अथ यदातपवर्ष्या आपो भवन्ति तेजश्च ह वै ब्रह्मवर्चसं चा ऽऽतपवर्ष्या आपः ।

विश्वास-प्रस्तुतिः

तेज एवास्मिंस्तद्ब्रह्मवर्चसं च दधाति ।

Haug

which are in this way placed in him.

मूलम्

तेज एवास्मिंस्तद्ब्रह्मवर्चसं च दधाति ।

विश्वास-प्रस्तुतिः

अथ यच्छष्पाणि च तोक्मानि च भवन्तीरायै तत्पुष्ट्यै रूपमथो प्रजात्या ।

Haug

The young grass and young barley represent provisions and the thriving by their means,

मूलम्

अथ यच्छष्पाणि च तोक्मानि च भवन्तीरायै तत्पुष्ट्यै रूपमथो प्रजात्या ।

विश्वास-प्रस्तुतिः

इरामेवास्मिंस्तत्पुष्टिं दधात्यथो प्रजातिम् ।

Haug

which are thus placed in him for (producing) offspring, and consequently (provide him with) offspring.

मूलम्

इरामेवास्मिंस्तत्पुष्टिं दधात्यथो प्रजातिम् ।

विश्वास-प्रस्तुतिः

अथ यत्सुरा भवति क्षत्त्ररूपं तदथो अन्नस्य रसः ।

Haug

The spirituous liquor represents the Kṣattra, and, further, the juice in the food;

मूलम्

अथ यत्सुरा भवति क्षत्त्ररूपं तदथो अन्नस्य रसः ।

विश्वास-प्रस्तुतिः

क्षत्त्ररूपमेवास्मिंस्तद्दधात्यथो अन्नस्य रसम् ।

Haug

thus both the Kṣattra and the juice in the food, are placed in him.

मूलम्

क्षत्त्ररूपमेवास्मिंस्तद्दधात्यथो अन्नस्य रसम् ।

विश्वास-प्रस्तुतिः

अथ यद्दूर्वा भवति क्षत्त्रं वा एतदोषधीनां यद्दूर्वा क्षत्त्रं राजन्यः ।

Haug

The Dûrvâ grass is Kṣattra; for this is the ruler of the herbs. The Kṣattra, viz., the princely race, is represented by it, as it were, spread everywhere;

मूलम्

अथ यद्दूर्वा भवति क्षत्त्रं वा एतदोषधीनां यद्दूर्वा क्षत्त्रं राजन्यः ।

विश्वास-प्रस्तुतिः

नितत इव हीह क्षत्त्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव ।

Haug

the Kṣattriya becomes residing here (on this earth), in his kingdom, he becomes established, as it were, his rule extended, as it were.

मूलम्

नितत इव हीह क्षत्त्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव ।

विश्वास-प्रस्तुतिः

निततेव दूर्वा ऽवरोधैर्भूम्यां प्रतिष्ठितेव ।

Haug

This is represented by the sprouts of the Dûrvâ, which have, as it were, a firm footing on the earth.

मूलम्

निततेव दूर्वा ऽवरोधैर्भूम्यां प्रतिष्ठितेव ।

विश्वास-प्रस्तुतिः

तद्यद्दूर्वा भवत्योषधीनामेवास्मिंस्तत्क्षत्त्रं दधात्यथो प्रतिष्ठाम् ।

Haug

In this way, the Kṣattra of the herbs is placed in him (the king) and a firm footing thus given him.

मूलम्

तद्यद्दूर्वा भवत्योषधीनामेवास्मिंस्तत्क्षत्त्रं दधात्यथो प्रतिष्ठाम् ।

विश्वास-प्रस्तुतिः

एतानि ह वै यान्यस्मादीजानाद्व्युत्क्रान्तानि भवन्ति तान्येवास्मिंस्तद्दधाति ।

Haug

All those things (the Brahma, sap, etc.), which had gone from the king after having performed a sacrifice, are in this way placed in him (again).

मूलम्

एतानि ह वै यान्यस्मादीजानाद्व्युत्क्रान्तानि भवन्ति तान्येवास्मिंस्तद्दधाति ।

विश्वास-प्रस्तुतिः

तैरेवैनं तत्समर्धयति ।

Haug

By their (of curds, honey, etc.) means he makes him thus successful.

मूलम्

तैरेवैनं तत्समर्धयति ।

विश्वास-प्रस्तुतिः

अथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुतः इति ।

Haug

Now he gives into his hand a goblet of spirituous liquor, under the recital of the verse, svādiṣṭhayā madiṣṭhayā, etc. (9, 1, 1) i.e., “Purify, O Soma! with thy sweetest, most exhilarating drops (the sacrificer), thou who art squeezed for Indra, to be drunk by him.”[11]

Haug - Notes

[11]This interpretation is given by Sâyaṇa, which, no doubt, is suitable to the occasion at which this mantra is used; and thus it certainly was interpreted even in ancient times. However, it does not appear to be the original meaning of the verse.

मूलम्

अथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुतः इति ।

विश्वास-प्रस्तुतिः

आधाय शान्तिं वाचयति नाना हि वां देवहितं सदस्कृतं मा संसृक्षाथां परमे व्योमनि ।

Haug

After having put the spirituous liquor into his hand, the priest repeats a propitiatory mantra[12] (which runs thus): “To either of you (spirituous liquor and Soma!) a separate residence has been prepared, and allotted by the gods. Do not mix with one another in the highest heaven;

Haug - Notes

[12]It is with some variations to be found in the Vâjasaneyi Saṁhita (19, 7).

मूलम्

आधाय शान्तिं वाचयति नाना हि वां देवहितं सदस्कृतं मा संसृक्षाथां परमे व्योमनि ।

विश्वास-प्रस्तुतिः

सुरा त्वमसि शुष्मिणी सोम एष राजा मैनं हिंसिष्टं स्वां योनिमाविशन्ताविति ।

Haug

liquor! thou art powerful; Soma! thou art a king. Do not harm him (the king)! May either go to his own place.”

मूलम्

सुरा त्वमसि शुष्मिणी सोम एष राजा मैनं हिंसिष्टं स्वां योनिमाविशन्ताविति ।

विश्वास-प्रस्तुतिः

सोमपीथस्य चैषा सुरापीथस्य च व्यावृत्तिः ।

Haug

(Here is said), that the drinking of the Soma and that of liquor, exclude one another (they are not to be mixed).

मूलम्

सोमपीथस्य चैषा सुरापीथस्य च व्यावृत्तिः ।

विश्वास-प्रस्तुतिः

पीत्वा यं रातिं मन्येत तस्मा एनां प्रयच्छेत् ।

Haug

After having drunk it, he should think, “the giver (the priest) of the goblet (to be his friend) and give him (the remainder of) this (liquor).”

मूलम्

पीत्वा यं रातिं मन्येत तस्मा एनां प्रयच्छेत् ।

विश्वास-प्रस्तुतिः

तद्धि मित्रस्य रूपम् ।

Haug

This is the characteristic of a friend.

मूलम्

तद्धि मित्रस्य रूपम् ।

विश्वास-प्रस्तुतिः

मित्र एवैनां तदन्ततः प्रतिष्ठापयति ।

Haug

Thus he finally places the liquor in his friend (gives him a share in it).

मूलम्

मित्र एवैनां तदन्ततः प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

तथा हि मित्रे प्रतितिष्ठति प्रतितिष्ठति य एवं वेद ।

Haug

And thus has he who possesses such a knowledge, a place in his friend (they are mutually connected).

मूलम्

तथा हि मित्रे प्रतितिष्ठति प्रतितिष्ठति य एवं वेद ।