अथ यदौदुम्बर्यासन्दी भवत्यौदुम्बरश्चमस उदुम्बरशाखोर्ग्वा अन्नाद्यमुदुम्बर ऊर्जमेवास्निंस्तदन्नाद्यं दधात्यथ यद्दधि मधु घृतम्भवत्यपां स ओषधीनां रसो-ऽपामेवास्मिंस्तदोषधीनां रसं दधात्यथ यदातपवर्ष्या आपो भवन्ति तेजश्च ह वै ब्रह्मवर्चसं चातपवर्ष्या आपस्तेज एवास्मिंस्तद्ब्रह्मवर्चसं च दधात्यथ यच्छष्पाणि च तोक्मानि च भवन्तीरायै तत्पुष्ट्यै रूपमथो प्रजात्य इरामेवा-स्मिंस्तत्पुष्टिं दधात्यथो प्रजातिमथ यत्सुरा भवति क्षत्ररूपं तदथो अन्नस्य रसः क्षत्ररूपमेवास्मिंस्तद्दधात्यथो अन्नस्य रसमथ यद्दूर्वा भवति क्षत्रं वा एत-दोषधीनां यद्दूर्वा क्षत्रं राजन्यो नितत इव हीह क्षत्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव निततेव दूर्वावरोधैर्भूम्याम्प्रतिष्ठितेव तद्यद्दूर्वा भवत्योषधीनामेवास्मिंस्त-त्क्षत्रं दधात्यथो प्रतिष्ठामेतानि ह वै यान्यस्मादीजानाद्व्युत्क्रान्तानि भवन्ति तान्येवास्मिंस्तद्दधाति तैरेवैनं तत्समर्धयत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्रा य पातवे सुत इत्याधाय शान्तिं वाचयति नाना हि वां देवहितं सदस्कृतम्मा सं सृक्षाथाम्परमे व्योमनि सुरा त्वमसि शुष्मिणी सोम एष राजा मैनं हिंसिष्टं स्वां योनिमाविसन्ताविति सोमपीथस्य चैषा सुरापीथस्य च व्यावृत्तिः पित्वा यं रातिम्मन्येत तस्मा एनाम्प्रयछेत्तद्धि मित्रस्य रूपं मित्र एवैनां तदन्ततः प्रतिष्ठापयति तथा हि मित्रे
प्रतितिष्ठति प्रतितिष्ठति य एवं वेद ८