०७

अथैनमुदुम्बरशाखामन्तर्धायाभिषिञ्चतीमा आपः शिवतमा इमाः सर्वस्य भेष-जीः इमा राष्ट्रस्य वर्धनीरिमा राष्ट्रभृतोऽमृताः याभिरिन्द्र मभ्यषिञ्चत्प्रजापतिः सोमं राजानं वरुणं यमम्मनुन्ताभिरद्भिरभिषिञ्चामि त्वामहं राज्ञां त्वमधिराजो भवेह महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनि-त्र्यजीजनद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्यामग्नेस्तेजसा सुर्यस्य वर्चसेन्द्र स्येन्द्रि येणाभिषिञ्चमि बलाय श्रियै यशसेऽन्नाद्याय भूरिति य इछेदिममेव प्रत्यन्नमद्यादित्यथ य इछेद्द्विपुरुषम्भूर्भुव इत्यथ य इछेत्त्रिपुरुषं वाप्रतिमं वा भूर्भुवः स्वरिति तद्धैक आहुः सर्वाप्तिर्वा एषा यदेता व्याहृतयो-ऽतिसर्वेण हास्य परस्मै कृतम्भवतीति तमेतेनाभिषिञ्चेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाबुभ्याम्पूष्णो हस्तभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्र स्येन्द्रि ये-णाभिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्यायेति तदु पुनः परिचक्षते यदसर्वेण वाचोऽभिषिक्तो भवतीश्वरो ह तु पुरायुषः प्रैतोरिति ह स्माह सत्यकामो जाबालो यमेताभिर्व्याहृतिभिर्नाभिषिञ्चन्तीतीश्वरो ह सर्वमायुरैतोः सर्वमाप्नोद्विजयेनेत्यु ह स्माहोद्दालक आरुणिर्यमेताभिर्व्याहृतिभिरभिषिञ्चन्तीति तमेतेनैवाभिषि-ञ्चेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम्पूष्णो हस्तभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्र स्येन्द्रि येणाभिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्याय भूर्भुवः स्वरित्य-थैतानि ह वै क्षत्रियादीजानाद्व्युत्क्रान्तानि भवन्ति ब्रह्मक्षत्रे ऊर्गन्नाद्यम-पामोषधीनां रसो ब्रह्मवर्चसमिरा पुष्टिः प्रजातिः क्षत्ररूपं तदथो अन्नस्य रस ओषधीनां क्षत्रम्प्रतिष्ठा तद्यदेवामू पुरस्तादाहुती जुहोति तदस्मिन्ब्रह्मक्षत्रे

दधाति ७