व्याघ्रचर्मणास्तृणात्युत्तरलोम्ना प्राचीनग्रीवेण क्षत्रां वा एतदारण्यानाम्पशूनां यद्व्याघ्रः क्षत्रं राजन्यः क्षत्रेणैव तत्क्षत्रं समर्धयति ताम्पश्चात्प्राङुपविश्याच्य जान्न्दक्षिणमभिमन्त्रयत उभाभ्याम्पाणिभ्यामालभ्याग्निष्ट्वा गायत्र्या सयुक् छन्दसारोहतु सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिर्बृहत्या मित्रावरुणौ पङ्क्त्ये-न्द्र स्त्रिष्टुभा विश्वे देवा जगत्या तानहमनु राज्याय साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाधिपत्याय स्वाव-श्यायातिष्ठायारोहामीत्येतामासन्दीमारोहेद्दक्षिणेनाग्रे जानुनाथ सव्येन तत्त-दितीँ चतुरुत्तरैर्वै देवाश्छन्दोभिः सयुग्भूत्वैतां श्रियमारोहन्यस्यामेत एतर्हि प्रतिष्ठिता अग्निर्गायत्र्या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिर्बृहत्या मित्रा-वरुणौ पङ्क्त्येन्द्र स्त्रिष्टुभा विश्वे देवा जगत्या ते एते अभ्यनूच्येते अग्नेर्गायत्र्य-भवत्सयुग्वेति कल्पते ह वा अस्मै योगक्षेम उत्तरोत्त रिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेता अनु देवता एतामासन्दीमारोहति क्षत्रियः सन्नथैनमभिषेक्ष्यन्नपां शान्तिं वाचयति शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचम्मे सर्वाँ अग्नीँ रप्सुषदो हुवे वो मयि वर्चो बलमोजो नि
धत्तेति नैतस्याभिषिषिचानस्याशान्ता आपो वीर्यं निर्हणन्निति ६