०५

अथातः पुनरभिषेकस्यैव सूयते ह वा अस्य क्षत्रं यो दीक्षते क्षत्रियः सन्स यदा-वभृतादुदेत्यानूबन्ध्ययेष्ट्वोदवस्यत्यथैनमुदवसानीयायां संस्थितायाम्पुनरभि-षिञ्चन्ति तस्यैते पुरस्तादेव सम्भारा उपकॢप्ता भवन्त्यौदुम्बर्यासन्दी तस्यै प्रा-देशमात्राः पादाः स्युररत्निमात्राणि शीर्षण्यानूच्यानि मौञ्जं विवयनं व्याघ्रच-र्मास्तरणमौदुम्बरश्चमस उदुम्बरशाखा तस्मिन्नेतस्मिंश्चमसेऽष्टातयानि निषुतानि भवन्ति दधि मधु सर्पिरातपवर्ष्या आपः शष्पाणि च तोक्मानि च सुरा दूर्वा तद्यैषा दक्षिणा स्फ्यवर्तनिर्वेदेर्भवति तत्रैताम्प्राचीमासन्दीम्प्रतिष्ठापयति तस्या अन्तर्वेदि द्वौ पादौ भवतो बहिर्वेदि द्वावियं वै श्रीस्तस्या एतत्परिमितं रूपं यदन्तर्वेद्यथैष भूमापरिमितो यो बहिर्वेदि तद्यदस्या अन्तर्वेदि द्वौ पादौ भवतो

बहिर्वेदि द्वा उभयोः कामयोरुपाप्त्यै यश्चान्तर्वेदि यश्च बहिर्वेदि ५