०४

विश्वास-प्रस्तुतिः

ऐकाहिका होत्रा ।

Haug

(The Śastras of the Minor Hotṛi-priests.)

The performances of the minor Hotṛi-priests (Maitrāvaruṇa, Brāhmaṇāchaṁsī, and Achhāvāka) required (at the sacrifice of a Kṣattriya) are those allotted to the Aikāhika sacrifices.

मूलम्

ऐकाहिका होत्रा ।

विश्वास-प्रस्तुतिः

एता वै शान्ताः कॢप्ताः प्रतिष्ठिता होत्रा यदैकाहिकाः शान्त्यै कॢप्त्यै प्रतिष्ठित्या अप्रच्युत्यै ।

Haug

For these Aikāhika performances are propitiatory, ready made, and placed on a footing, in order to make the sacrifice successful to accomplish it, and place it on a firm footing whence it cannot fall down.

मूलम्

एता वै शान्ताः कॢप्ताः प्रतिष्ठिता होत्रा यदैकाहिकाः शान्त्यै कॢप्त्यै प्रतिष्ठित्या अप्रच्युत्यै ।

विश्वास-प्रस्तुतिः

ताः सर्वरूपा भवन्ति सर्वसमृद्धाः सर्वरूपतायै सर्वसमृद्ध्यै ।

Haug

These (performances) contain all the forms (required), and are quite complete. (They are repeated) in order to accomplish the integrity and completeness (of the sacrifice).

मूलम्

ताः सर्वरूपा भवन्ति सर्वसमृद्धाः सर्वरूपतायै सर्वसमृद्ध्यै ।

विश्वास-प्रस्तुतिः

सर्वरूपाभिर्होत्राभिः सर्वसमृद्धाभिः सर्वान्कामानवाप्नवामेति ।

Haug

The Kṣattriyas who perform a sacrifice should think, “Let us obtain all desires by means of the all-perfect and complete performances of the minor Hotṛi-priests.”

मूलम्

सर्वरूपाभिर्होत्राभिः सर्वसमृद्धाभिः सर्वान्कामानवाप्नवामेति ।

विश्वास-प्रस्तुतिः

तस्माद्यत्र क्व चैकाहा असर्वस्तोमा असर्वपृष्ठा ऐकाहिका एव तत्र होत्राः स्युस्तत्समृद्धम् ।

Haug

Therefore, wherever the Ekāhas are not complete as to the number of Stomas and Pṛiṣṭhas, there are the Aikāhika performances of the minor Hotṛi-priests required,[13] then it (the sacrifice) becomes completed.

Haug - Notes

[13]For the Ekâhas, which are sarvastoma and sarvapṛiṣṭha, the following six Stomas are required: tṛivrit, paṁchadaśa, saptadaśa, ekaviṁśa, trinava, trayastriṁśa; and the following Pṛiṣṭhas: Bṛihat, Rathantara, Vairupa, Vairaja, Sakvara, Raivata. In the Kṣattriya sacrifice, there are only the Bṛihat and Rathantara required. It is therefore incomplete; the defects are to be supplied by the minor Hotṛi-priests.

मूलम्

तस्माद्यत्र क्व चैकाहा असर्वस्तोमा असर्वपृष्ठा ऐकाहिका एव तत्र होत्राः स्युस्तत्समृद्धम् ।

विश्वास-प्रस्तुतिः

उक्थ्य एवायं पञ्चदशः स्यादित्याहुः ।

Haug

This sacrifice (performed by a Kṣattriya) should be the Ukthya, which has fifteen Stotras and Śastras. Such is the opinion of some.

मूलम्

उक्थ्य एवायं पञ्चदशः स्यादित्याहुः ।

विश्वास-प्रस्तुतिः

ओजो वा इन्द्रियं वीर्यं पञ्चदश ।

Haug

For the sharpness of senses is a power (ojas), and the number fifteen is strength;

मूलम्

ओजो वा इन्द्रियं वीर्यं पञ्चदश ।

विश्वास-प्रस्तुतिः

ओजः क्षत्त्रं वीर्यं राजन्यः ।

Haug

(furtner) the Kṣattra is power, and the Kṣattriya is strength.

मूलम्

ओजः क्षत्त्रं वीर्यं राजन्यः ।

विश्वास-प्रस्तुतिः

तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति ।

Haug

Thus the priest makes him (the Kṣattriya) successful by means of power, Kṣattra, (and) strength.

मूलम्

तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति ।

विश्वास-प्रस्तुतिः

तस्य त्रिंशत्स्तुतशस्त्राणि भवन्ति ।

Haug

This sacrifice requires thirty Stotras and Śastras (viz., fifteen each).

मूलम्

तस्य त्रिंशत्स्तुतशस्त्राणि भवन्ति ।

विश्वास-प्रस्तुतिः

त्रिंशदक्षरा वै विराट् ।

Haug

For the Virāj consists of thirty syllables.

मूलम्

त्रिंशदक्षरा वै विराट् ।

विश्वास-प्रस्तुतिः

विराळन्नाद्यम् ।

Haug

The Virāj is food.

मूलम्

विराळन्नाद्यम् ।

विश्वास-प्रस्तुतिः

विराज्येवैनं तदन्नाद्ये प्रतिष्ठापयति ।

Haug

When he places him (the sacrificer, in the Virāj, then he places him in food.

मूलम्

विराज्येवैनं तदन्नाद्ये प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

तस्मात्तदुक्थ्यः पञ्चदशः स्यादित्याहुः ।

Haug

Therefore the Ukthya, which is fifteen-fold, should be (employed for the king at this occasion).

मूलम्

तस्मात्तदुक्थ्यः पञ्चदशः स्यादित्याहुः ।

विश्वास-प्रस्तुतिः

ज्योतिष्टोम एवाग्निष्टोमः स्यात् ।

Haug

But the Agniṣṭoma, which forms part of the Jyotiṣṭoma, would more properly answer this purpose.[14]

Haug - Notes

[14]In this sacrifice, there are the four Stomas subsequently mentioned, required.

मूलम्

ज्योतिष्टोम एवाग्निष्टोमः स्यात् ।

विश्वास-प्रस्तुतिः

ब्रह्म वै स्तोमानां त्रिवृत्क्षत्त्रं पञ्चदशः ।

Haug

For, among the Stomas, the Trivṛit (nine-fold) is the Brahma, and the fifteen-fold Stoma is the Kṣattra.

मूलम्

ब्रह्म वै स्तोमानां त्रिवृत्क्षत्त्रं पञ्चदशः ।

विश्वास-प्रस्तुतिः

ब्रह्म खलु वै क्षत्त्रात्पूर्वं ब्रह्म पुरस्तान्म उग्रं राष्ट्रमव्यथ्यमसदिति ।

Haug

But the Brahma precedes the Kṣattra: (for the king should think) “If the Brahma is placed first, my kingdom will be strong and not to be shaken.

मूलम्

ब्रह्म खलु वै क्षत्त्रात्पूर्वं ब्रह्म पुरस्तान्म उग्रं राष्ट्रमव्यथ्यमसदिति ।

विश्वास-प्रस्तुतिः

विशः सप्तदशः शौद्रो वर्ण एकविंशः ।

Haug

The number seventeen represents the Vaiśyas, and twenty-one the Śûdras.

मूलम्

विशः सप्तदशः शौद्रो वर्ण एकविंशः ।

विश्वास-प्रस्तुतिः

विशं चैवास्मै तच्छौद्रं च वर्णमनुवर्त्मानौ कुर्वन्ति ।

Haug

If these two Stomas (the seventeen and twenty-one fold) are employed, then they make the Vaiśyas and Śûdras follow him (the king).

मूलम्

विशं चैवास्मै तच्छौद्रं च वर्णमनुवर्त्मानौ कुर्वन्ति ।

विश्वास-प्रस्तुतिः

अथो तेजो वै स्तोमानां त्रिवृद्वीर्यं पञ्चदशः प्रजातिः सप्तदशः प्रतिष्ठैकविंशः ।

Haug

Among the Stomas, the Trivṛit is splendour, the fifteen-fold is strength, the seventeen-fold is offspring, the twenty-one-fold is the footing.

मूलम्

अथो तेजो वै स्तोमानां त्रिवृद्वीर्यं पञ्चदशः प्रजातिः सप्तदशः प्रतिष्ठैकविंशः ।

विश्वास-प्रस्तुतिः

तदेनं तेजसा वीर्येण प्रजात्या प्रतिष्ठया ऽन्ततः समर्धयति ।

Haug

Thus the priest makes the king, who (thus) sacrifices, successful in gaining splendour, strength, offspring, and a firm footing.

मूलम्

तदेनं तेजसा वीर्येण प्रजात्या प्रतिष्ठया ऽन्ततः समर्धयति ।

विश्वास-प्रस्तुतिः

तस्माज्ज्योतिष्टोमः स्यात् ।

Haug

Therefore the Jyotiṣṭoma (Agniṣṭoma) is required.

मूलम्

तस्माज्ज्योतिष्टोमः स्यात् ।

विश्वास-प्रस्तुतिः

तस्य चतुर्विंशतिः स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासो वै संवत्सरः ।

Haug

This requires twenty-four Stotras and Śastras (twelve each). For the year consists of twenty-four half months;

मूलम्

तस्य चतुर्विंशतिः स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासो वै संवत्सरः ।

विश्वास-प्रस्तुतिः

संवत्सरे कृत्स्नमन्नाद्यम् ।

Haug

in the year there are all (kinds of) nourishment.

मूलम्

संवत्सरे कृत्स्नमन्नाद्यम् ।

विश्वास-प्रस्तुतिः

कृत्स्न एवैनं तदन्नाद्ये प्रतिष्ठापयति ।

Haug

Thus he places him (the sacrificer) in all (kinds of) nourishment.

मूलम्

कृत्स्न एवैनं तदन्नाद्ये प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

तस्माज्ज्योतिष्टोम एवाग्निष्टोमः स्यादग्निष्टोमः स्यात् ।

Haug

Thence the Jyotiṣṭoma-Agniṣṭoma alone is required (and not the Ukthya).

मूलम्

तस्माज्ज्योतिष्टोम एवाग्निष्टोमः स्यादग्निष्टोमः स्यात् ।