ऐकाहिका होत्रा एता वै शान्ताः कॢप्ताः प्रतिष्ठिता होत्रा यदैकाहिकाः शान्त्यै कॢप्त्यै प्रतिष्ठित्या अप्रच्युत्यै ताः सर्वरूपा भवन्ति सर्वसमृद्धाः सर्वरूपतायै सर्वसमृद्ध्यै सर्वरूपाभिर्होत्राभिः सर्वसमृद्धाभिः सर्वान्कामानवाप्नवामेति तस्माद्यत्र क्वचैकाहा असर्वस्तोमा असर्वपृष्ठा ऐकाहिका एव तत्र होत्राः स्युस्तत्समृद्धमुक्थ्य एवायम्पञ्चदशः स्यादित्याहुरोजो वा इन्द्रि यं वीर्यम्पञ्चदश ओजः क्षत्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति तस्य त्रिंशत्स्तुतशस्त्राणि भवन्ति त्रिंशदक्षरा वै विराड्विराडन्नाद्यं विराज्येवैनं तदन्नाद्ये प्रतिष्ठापयति तस्मात्तदुक्थ्यः पञ्चदशः स्यादित्याहुर्ज्योतिष्टोम एवा-ग्निष्टोमः स्याद्ब्रह्म वै स्तोमानां त्रिवृत्क्षत्रम्पञ्चदशो ब्रह्म खलु वै क्षत्रा-त्पूर्वम्ब्रह्मपुरस्तान्न उग्रं राष्ट्रमव्यथ्यमसदिति विशः सप्तदशः शौद्रो वर्ण एकविंशो विशं चैवास्मै तच्छौद्रं च वर्णमनुवर्त्मानौ कुर्वन्त्यथो तेजो वै स्तोमानां त्रिवृद्वीर्यम्पञ्चदशः प्रजातिः सप्तदशः प्रतिष्ठैकविंशस्तदेनं तेजसा वी-र्येण प्रजात्या प्रतिष्ठयान्ततः समर्धयति तस्माज्ज्योतिष्टोमः स्यात्तस्य चतुर्विं-शतिः स्तुतशस्त्राणि भवन्ति चतुर्विंसत्यर्धमासो वै संवत्सरः संवत्सरे कृत्स्न-मन्नाद्यं कृत्स्न एवैनं तदन्नाद्ये प्रतिष्ठापयति तस्माज्ज्योतिष्टोम एवाग्निष्टोमः
स्यादग्निष्टोमः स्यात् ४
१