०३

तमु ष्टुहि यो अभिभूत्योजा इति सूक्तमभिवदभिभूत्यै रूपमषाळ्हमुग्रं सहमानमाभिरित्युग्रवत्सहमानवत्तत्क्षत्रस्य रूपं तत्पञ्चदशर्चम्भवत्योजो वा इन्द्रि यं वीर्यम्पञ्चदश ओजः क्षत्रं वीर्यम्राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति तद्भारद्वाजम्भवति भारद्वाजं वै बृहदार्षेयेण सलोमैष ह वाव क्षत्रिययज्ञः समृद्धो यो बृहत्पृष्ठस्तस्माद्यत्र क्वच क्षत्रियो यजेत बृहदेव तत्र पृष्ठं

स्यात्तत्समृद्धम् ३