जनिष्ठा उग्रः सहसे तुरायेति सूक्तमुग्रवत्सहस्वत्तत्क्षत्रस्य रूपम्मन्द्र ओजिष्ठ इत्योजस्वत्तत्क्षत्रस्य रूपम्बहुलाभिमान इत्यभिवदभिभूत्यै रूपं तदेकादश-र्चम्भवत्येकादशाक्षरा वै त्रिष्टुप् त्रैष्टुबो वै राजन्य ओजो वा इन्द्रि यं वीर्यं त्रिष्टुबोजः क्षत्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति तद्गौरि-वीतम्भवत्येतद्वै मरुत्वतीयं समृद्धं यद्गौरिवीतं तस्योक्तम्ब्राह्मणं त्वामिद्धि हवामह इति बृहत्पृष्ठम्भवति क्षत्रं वै बृहत्क्षत्रेणैव तत्क्षत्रं समर्धयत्यथो क्षत्रं वै बृहदात्मा याजमानस्य निष्केवल्यं तद्यद्बृहत्पृष्ठम्भवति क्षत्रं वै बृहत्क्षत्रेणैवैनं तत्समर्धयत्यथो ज्यैष्ठ्यं वै बृहज्ज्यैष्ठ्येनैवैनं तत्समर्धयत्यथो श्रैष्ठ्यं वै बृहच्छ्रै-ष्ठ्येनैवैनं तत्समर्धयत्यभि त्वा शूर नोनुम इति रथंतरमनुरूपं कुर्वन्त्ययं वै लोको रथंतरमसौ लोको बृहदस्य वै लोकस्यासौ लोकोऽनुरूपोऽमुष्य लो-कस्यायं लोकोऽनुरूपस्तद्यद्र थंतरमनुरूपं कुर्वन्त्युभावेव तल्लोकौ यजमानाय सम्भोगिनौ कुर्वन्त्यथो ब्रह्म वै रथंतरं क्षत्रम्बृहद्ब्रह्मणि खलु वै क्षत्रम्प्रतिष्ठितं क्षत्रे ब्रह्माथो साम्न एव सयोनितायै यद्वावानेति धाय्या तस्या उक्तम्ब्राह्मणमुभयं
शृणवच्च न इति सामप्रगाथ उभयसाम्नो रूपमुभे हि सामनी क्रियेते २