विश्वास-प्रस्तुतिः
जनिष्ठा उग्रः सहसे तुरायेति सूक्तम् ।
Haug
(The Remainder of the Marutvatîya Shastra and the Nishkevalya Śastra.)
The (Nivid) hymn (of the Pavamâna uktham) is janiṣṭhā ugraḥ (10, 73). [7]
Haug - Notes
[7]See pages 188-89. It is the same as at the Marutvatiya Śastra.
मूलम्
जनिष्ठा उग्रः सहसे तुरायेति सूक्तम् ।
विश्वास-प्रस्तुतिः
उग्रवत्सहस्वत्तत्क्षत्त्रस्य रूपम् ।
Haug
It contains the terms, ugra strong, and sahas power, which are characteristic of the Kṣattra.
मूलम्
उग्रवत्सहस्वत्तत्क्षत्त्रस्य रूपम् ।
विश्वास-प्रस्तुतिः
मन्द्र ओजिष्ठ इत्योजस्वत्तत्क्षत्त्रस्य रूपम् ।
Haug
The word, ojiṣṭha, “the strongest,” is also a characteristic of the Kṣattra.
मूलम्
मन्द्र ओजिष्ठ इत्योजस्वत्तत्क्षत्त्रस्य रूपम् ।
विश्वास-प्रस्तुतिः
बहुलाभिमान इत्यभिवदभिभूत्यै रूपम् ।
Haug
The words, bahulābhimānaḥ (in the first verse) contain the term abhi, which means, “to overpower, defeat,” (which is a characteristic of the Kṣattram also).
मूलम्
बहुलाभिमान इत्यभिवदभिभूत्यै रूपम् ।
विश्वास-प्रस्तुतिः
तदेकादशर्चं भवत्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वै राजन्यः ।
Haug
The hymn consists of eleven verses, for the Triṣṭubh comprises eleven syllables, and the Kṣattriyas share in the nature of the Triṣṭubh.
मूलम्
तदेकादशर्चं भवत्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वै राजन्यः ।
विश्वास-प्रस्तुतिः
ओजो वा इन्द्रियं वीर्यं त्रिष्टुबोजः क्षत्त्रं वीर्यं राजन्यः ।
Haug
Ojas (in ojiṣṭha) is Indra’s power, vîryam (strength) is Triṣṭubh; the Kṣattra is power (ojas), and the Kṣattriya race is the strength (as to progeny).
मूलम्
ओजो वा इन्द्रियं वीर्यं त्रिष्टुबोजः क्षत्त्रं वीर्यं राजन्यः ।
विश्वास-प्रस्तुतिः
तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति ।
Haug
Thus he (the priest) makes him (the Kṣattriya) successful in strength, royal power, and progeny.
मूलम्
तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति ।
विश्वास-प्रस्तुतिः
तद्गौरिवीतं भवति ।
Haug
By this Gaurivîti hymn[8]
Haug - Notes
[8]Janiṣṭâugraḥ (See above). The Riṣi is supposed to be Gaurivîti.
मूलम्
तद्गौरिवीतं भवति ।
विश्वास-प्रस्तुतिः
एतद्वै मरुत्वतीयं समृद्धं यद्गौरिवीतम् ।
Haug
the Marutvatîya Śastra becomes successful,
मूलम्
एतद्वै मरुत्वतीयं समृद्धं यद्गौरिवीतम् ।
विश्वास-प्रस्तुतिः
तस्योक्तं ब्राह्मणम् ।
Haug
on which a Brāhmaṇam[9] has been told.
Haug - Notes
[9]It begins, tad vâ etad yajamâna jananam. See 4, 19 (page 65 of the text).
मूलम्
तस्योक्तं ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
त्वामिद्धि हवामह इति बृहत्पृष्ठं भवति ।
Haug
(Now Follows the Niṣkevalya Śastram.)
The verse, tvām iddhī havāmahe (6, 46, 1-2), forms the Bṛihat Pṛiṣṭha.
मूलम्
त्वामिद्धि हवामह इति बृहत्पृष्ठं भवति ।
विश्वास-प्रस्तुतिः
क्षत्त्रं वै बृहत् ।
Haug
For the Bṛihat Sāma is the Kṣattram;
मूलम्
क्षत्त्रं वै बृहत् ।
विश्वास-प्रस्तुतिः
क्षत्त्रेणैव तत्क्षत्त्रं समर्धयति ।
Haug
by means of the Kṣattra, the king makes complete his royal power.
मूलम्
क्षत्त्रेणैव तत्क्षत्त्रं समर्धयति ।
विश्वास-प्रस्तुतिः
अथो क्षत्त्रं वै बृहदात्मा याजमानस्य निष्केवल्यम् ।
Haug
If the Bṛihat is the Kṣattra, then the soul of the sacrificer is the Niṣkevalya Śastra (to which the Bṛihat Sāma belongs).
मूलम्
अथो क्षत्त्रं वै बृहदात्मा याजमानस्य निष्केवल्यम् ।
विश्वास-प्रस्तुतिः
तद्यद्बृहत्पृष्ठं भवति क्षत्त्रं वै बृहत्क्षत्रेणैवैनं तत्समर्धयति ।
Haug
That is what the Bṛihat Pṛiṣṭha becomes (for the sacrificer). The Bṛihat is the Kshattra; by means of the Kṣattra, the Brihat makes him successful.
मूलम्
तद्यद्बृहत्पृष्ठं भवति क्षत्त्रं वै बृहत्क्षत्रेणैवैनं तत्समर्धयति ।
विश्वास-प्रस्तुतिः
अथो ज्यैष्ठ्यं वै बृहत् ।
Haug
The Brihat is further precedence,
मूलम्
अथो ज्यैष्ठ्यं वै बृहत् ।
विश्वास-प्रस्तुतिः
ज्यैष्ठ्येनैवैनं तत्समर्धयति ।
Haug
and in this respect it makes him successful also.
मूलम्
ज्यैष्ठ्येनैवैनं तत्समर्धयति ।
विश्वास-प्रस्तुतिः
अथो श्रैष्ठ्यं वै बृहत् ।
Haug
The Bṛihat is further excellence,
मूलम्
अथो श्रैष्ठ्यं वै बृहत् ।
विश्वास-प्रस्तुतिः
श्रैष्ठ्येनैवैनं तत्समर्धयति ।
Haug
and in this respect it makes him successful also.
मूलम्
श्रैष्ठ्येनैवैनं तत्समर्धयति ।
विश्वास-प्रस्तुतिः
अभि त्वा शूर नोनुम इति रथंतरमनुरूपं कुर्वन्ति ।
Haug
They make the Rathantara Sāma, abhi tvā śūra nonumaḥ, the Anurûpa[10] to the Bṛihat.
Haug - Notes
[10]That is to say, the Hotar repeats as counterpart to the Stotriya of the Niṣkevalya Śastra, which is at this occasion the text of the Bṛihat Sâma, the text of the Rathantaram, which is quite unusual.
मूलम्
अभि त्वा शूर नोनुम इति रथंतरमनुरूपं कुर्वन्ति ।
विश्वास-प्रस्तुतिः
अयं वै लोको रथंतरमसौ लोको बृहत् ।
Haug
For the Rathantara is this world, and the Bṛihat is that world.
मूलम्
अयं वै लोको रथंतरमसौ लोको बृहत् ।
विश्वास-प्रस्तुतिः
अस्य वै लोकस्यासौ लोको ऽनुरूपः ।
Haug
That world corresponds to this one,
मूलम्
अस्य वै लोकस्यासौ लोको ऽनुरूपः ।
विश्वास-प्रस्तुतिः
अमुष्य लोकस्यायं लोको ऽनुरूपः ।
Haug
and this world to that one.
मूलम्
अमुष्य लोकस्यायं लोको ऽनुरूपः ।
विश्वास-प्रस्तुतिः
तद्यद्रथंतरमनुरूपं कुर्वन्त्युभावेव तल्लोकौ यजमानाय सम्भोगिनौ कुर्वन्ति ।
Haug
Therefore, they make the Rathantara the Anurûpa to the Bṛihat, for thus they make the sacrificer enjoy both worlds.
मूलम्
तद्यद्रथंतरमनुरूपं कुर्वन्त्युभावेव तल्लोकौ यजमानाय सम्भोगिनौ कुर्वन्ति ।
विश्वास-प्रस्तुतिः
अथो ब्रह्म वै रथंतरं क्षत्त्रं बृहत् ।
Haug
Further, the Rathantara is the Brahma, and the Kṣattra the Bṛihat;
मूलम्
अथो ब्रह्म वै रथंतरं क्षत्त्रं बृहत् ।
विश्वास-प्रस्तुतिः
ब्रह्मणि खलु वै क्षत्त्रं प्रतिष्ठितं क्षत्त्रे ब्रह्म ।
Haug
thus the Kṣattra is then placed in the Brahma, and the Brahma in the Kṣattra.
मूलम्
ब्रह्मणि खलु वै क्षत्त्रं प्रतिष्ठितं क्षत्त्रे ब्रह्म ।
विश्वास-प्रस्तुतिः
अथो साम्न एव सयोनितायै ।
Haug
There is then prepared for both the Sāmans the same place.
मूलम्
अथो साम्न एव सयोनितायै ।
विश्वास-प्रस्तुतिः
यद्वावानेति धाय्या तस्या उक्तं ब्राह्मणम् ।
Haug
The Dhāyyā is yad vāvāna (10, 74, 6), of which a Brāhmaṇam[11] has been already told.
Haug - Notes
[11]This Brâhmaṇam is, te devâ abruvan sarvaṁ vâ. See 3. 22 (page 67 of the text).
मूलम्
यद्वावानेति धाय्या तस्या उक्तं ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
उभयं शृणवच्चन इति सामप्रगाथ उभयसाम्नो रूपमुभे हि सामनी क्रियेते ।
Haug
The Sāma Pragātha is, ubhayaṁ śṛiṇavachcha (8, 50, 1-2); for it is a characteristic of both Sāmans which are sung (on account of its containing the word ubhayam, both.)
मूलम्
उभयं शृणवच्चन इति सामप्रगाथ उभयसाम्नो रूपमुभे हि सामनी क्रियेते ।