अथातः स्तुतशस्त्रयोरेवैकाहिकम्प्रातःसवनमैकाहिकं तृतीयसवनमेते वै शान्ते कॢप्ते प्रतिष्ठिते सवने यदैकाहिके शान्त्यै कॢप्त्यै प्रतिष्ठित्या अप्रच्युत्या उक्तो माध्यंदिनः पवमानो य उभयसाम्नो बृथत्पृष्ठस्योभे हि सामनी क्रियेते आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति राथंतरी प्रतिपद्रा थंतरोऽनुचरः पवमानोक्थं वा एतद्यन्मरुत्वतीयम्पवमाञे वा अत्र रथंतरं कुर्वन्ति बृहत्पृष्ठं सवीवधतायै तदिदं रथंतरं स्तुतमाभ्याम्प्रतिपदनुचराभ्यामनुशंसत्यथो ब्रह्म वै रथंतरं क्षत्रं बृहद्ब्रह्म खलु वै क्षत्रात्पूर्वम्ब्रह्मपुरस्तान्म उग्रं राष्ट्रमव्यथ्यमसदित्यथान्नं वै रथंतरमन्नमेवास्मै तत्पुरस्तात्कल्पयत्यथेयं वै पृथिवी रथंतरमियं खलु वै प्रतिष्ठ प्रतिष्ठामेवास्मै तत्पुरस्तात्कल्पयति समान इन्द्र निहवोऽविभक्तः सोऽह्नामु-द्वान्ब्राह्मणस्पत्य उभयसाम्नो रूपमुभे हि सामनी क्रियेते समान्यो धाय्य
अविभक्तास्ता अह्नामैकाहिको मरुत्वतीयः प्रगाथः १