तद्यत्रैतांश्चमसान्सादयेयुस्तदेतं यजमानचमसं सादयेत्तान्यत्र प्रकम्पयेयुस्तदे-नमनुप्रकम्पयेदथैनमाहृतम्भक्षयेन्नराशंसपीतस्य देव सोम ते मतिविद ऊमैः पितृभिर्भक्षितस्य भक्षयामीति प्रातःसवने नाराशंसो भक्ष ऊर्वैरिति माध्यंदिने काव्यैरिति तृतीयसवन ऊमा वै पितरः प्रातःसवन ऊर्वा माध्यंदिने का-व्यास्तृतीयसवाने तदेतत्पितॄनेवामृतान्सवनभाजः करोति सर्वो हैव सोऽमृत इति ह स्माह प्रियव्रतः सोमापो यः कश्च सवनभागित्यमृता ह वा अस्य पितरः सवनभाजो भवन्त्युग्रं हास्य राष्ट्रमव्यथ्यम्भवति य एवमेतम्भक्षम्भक्षयति क्षत्रियो यजमानः समान आत्मनः प्रत्यभिमर्शः समानमाप्यायनं चमसस्य प्रातःसवनस्यैवावृता प्रातःसवने चरेयुर्माध्यंदिनस्य माध्यंदिने तृतीयसवनस्य तृतीयसवने तमेवमेतम्भक्षम्प्रोवाच रामो मार्गवेयो विश्वंतराय सौषद्मनाय तस्मिन्होवाच प्रोक्ते सहस्रमु ह ब्राह्मण तुभ्यं दद्मः सश्यापर्ण उ मे यज्ञ इत्येतमु हैव प्रोवाच तुरः कावषेयो जनमेजयाय पारिक्षितायैतमु हैव प्रोचतुः पर्व-तनारदौ सोमकाय साहदेव्याय सहदेवाय सार्ञ्जयाय बभ्रवे दैवावृधाय भिमाय वैदर्भाय नग्नजिते गान्धारायैतमु हैव प्रोवाचाश्निः सनश्रुतायारिन्दमाय क्रतुविदे जानकय एतमु हैव प्रोवाच वसिष्ठः सुदासे पैजवनाय ते ह ते सर्व एव महज्जग्मुरेतम्भक्षम्भक्षयित्वा सर्वे हैव महाराजा आसुरादित्य इव ह स्म श्रियाम्प्रतिष्ठितास्तपन्ति सर्वाभ्यो दिग्भ्यो बलिमावहन्त आदित्य इव ह वै श्रियाम्प्रतिष्ठितस्तपति सर्वाभ्यो दिग्भ्यो बलिमावहत्युग्रं हास्य राष्ट्रमव्यथ्यम्भवति य एवमेतम्भक्षम्भक्षयति क्षत्रियो यजमानो यजमानः ३४
५
इति सप्तमपञ्चिका समाप्ता