तद्यत्रैतांश्चमसानुन्नयेयुस्तदेतं यजमानचमसमुन्नयेत्तस्मिन्द्वे दर्भतरुणके प्रास्ते स्यातां तयोर्वषट्कृतेऽन्तःपरिधि पूर्वम्प्रास्येद्दधिक्राव्णो अकारिषं इत्येतयर्चा सस्वाहकारयानुवषट्कृतेऽपरमा दधिक्राः शवसा पञ्च कृष्टीरिति तद्यत्रैतांश्चम-सानाहरेयुस्तदेतं यजमानचमसमाहरेत्तान्यत्रोद्गृह्णीयुस्तदेनमुपोद्गृह्णीयात्तद्यदेळां होतोपह्वयेत यदा चमसम्भक्षयेदथैनमेतया भक्षयेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति शिवो ह वा अस्मा एष वानस्पत्यः शिवेन मनसा भक्षितो भवत्युग्रं हास्य राष्ट्रमव्यथ्यम्भवति य एवमेतम्भक्षम्भक्षयति क्षत्रियो यजमानः शं ना एधि हृइदे पीतः पीतः प्र ण आयुर्जीवसे सोम तारीरित्यात्मनः प्रत्यभिमर्श ईश्वरो ह वा एषोऽप्रत्यभिमृष्टो मनुष्यस्यायुः प्रत्यवहर्तोरनर्हन्मा भक्षयतीति तद्यदेतेनात्मानमभिमृशत्यायुरेव तत्प्रतिरत आ प्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा इति चमसमाप्याययत्यभिरूपाभ्यां यद्यज्ञेऽभिरूपं तत्समृद्धम्
३३