विश्वास-प्रस्तुतिः
तेषां यश्चमसानां रसो ऽवाङैत्ते ऽवरोधा अभवन्नथ य ऊर्ध्वस्तानि फलानि ।
Haug
(On the Meaning of the King’s Drinking the Juice of the Nyagrodha Tree instead of Soma.)
That portion of the juice in these Soma cups which went downwards became the descending roots, and of the other which went up, the fruits were produced.
मूलम्
तेषां यश्चमसानां रसो ऽवाङैत्ते ऽवरोधा अभवन्नथ य ऊर्ध्वस्तानि फलानि ।
विश्वास-प्रस्तुतिः
एष ह वाव क्षत्त्रियः स्वाद्भक्षान्नैति यो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयति ।
Haug
That Kṣattriya, therefore, who enjoys the juice of the descending roots of the Nyagrodha tree, and that of its fruits, is not debarred from his own share (bhakṣa).
मूलम्
एष ह वाव क्षत्त्रियः स्वाद्भक्षान्नैति यो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयति ।
विश्वास-प्रस्तुतिः
उपाह परोक्षेणैव सोमपीथमाप्नोति नास्य प्रत्यक्षं भक्षितो भवति ।
Haug
Further, he thus obtains the Soma beverage by means of a substitute, though he does not enjoy the real Soma, but only in the form of a substitute;
मूलम्
उपाह परोक्षेणैव सोमपीथमाप्नोति नास्य प्रत्यक्षं भक्षितो भवति ।
विश्वास-प्रस्तुतिः
परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः ।
Haug
for the Nyagrodha is just this substitute of the Soma.
मूलम्
परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः ।
विश्वास-प्रस्तुतिः
परोक्षमिवैष ब्रह्मणो रूपमुपनिगच्छति यत्क्षत्त्रियः पुरोधयैव दीक्षयैव प्रवरेणैव ।
Haug
The Kṣattriya (when drinking the juice of the Nyagrodha) enters the form of the Brahma by the medium of another (not direct), viz., through the relationship of his purohita (with the Brahmans), his own Dîkṣā (at which the king himself was made a Brāhmaṇa for a little while), and the Pravara of his Purohita.
मूलम्
परोक्षमिवैष ब्रह्मणो रूपमुपनिगच्छति यत्क्षत्त्रियः पुरोधयैव दीक्षयैव प्रवरेणैव ।
विश्वास-प्रस्तुतिः
क्षत्त्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः ।
Haug
The Kṣattra (ruling power) occupies (among men the same place as) the Nyagrodha among the trees;
मूलम्
क्षत्त्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः ।
विश्वास-प्रस्तुतिः
क्षत्त्रं राजन्यः ।
Haug
for the Kṣattra are the royal princes, whose power alone is spread here (on this earth), as being alone invested with sovereign power.
मूलम्
क्षत्त्रं राजन्यः ।
विश्वास-प्रस्तुतिः
नितत इव हीह क्षत्त्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव नितत इव न्यग्रोधो ऽवरोहैर्भूम्यां प्रतिष्ठित इव ।
Haug
The Nyagrodha is,[9] as it were, firmly established in the earth (and thus a sign of the duration of the royal power); and by means of its descending roots expanded (in all directions, and therefore a sign of the great extent of the power of the Kṣattriyas over the whole earth).
Haug - Notes
[9]The tree (a kind of the Ficus indica) is very strong.
मूलम्
नितत इव हीह क्षत्त्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव नितत इव न्यग्रोधो ऽवरोहैर्भूम्यां प्रतिष्ठित इव ।
विश्वास-प्रस्तुतिः
तद्यत्क्षत्त्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्यात्मन्येव तत्क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति क्षत्त्र आत्मानम् ।
Haug
When the Kṣattriya who performs a sacrifice enjoys (the juice squeezed out of the) descending roots of the Nyagrodha tree, and its fruits, then he places in himself royal power (exercised by the Nyagrodha) over the trees, and into the Kṣattra his own Self.
मूलम्
तद्यत्क्षत्त्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्यात्मन्येव तत्क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति क्षत्त्र आत्मानम् ।
विश्वास-प्रस्तुतिः
क्षत्त्रे ह वै स आत्मनि क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति ।
Haug
He then is in the Kṣattra, and the royal power represented by the Nyagrodha over the trees, is then placed in him.
मूलम्
क्षत्त्रे ह वै स आत्मनि क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति ।
विश्वास-प्रस्तुतिः
न्यग्रोध इवावरोधैर्भूम्यां प्रति राष्ट्रे तिष्ठति ।
Haug
Just as the Nyagrodha tree has, by means of its descending roots, a firm footing on the earth (for it is multiplied in this way),
मूलम्
न्यग्रोध इवावरोधैर्भूम्यां प्रति राष्ट्रे तिष्ठति ।
विश्वास-प्रस्तुतिः
उग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्त्रियो यजमानः ।
Haug
the royal power of a Kṣattriya who enjoys, when sacrificing, this portion (as food) has a firm footing, and his rule cannot be overthrown.
मूलम्
उग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्त्रियो यजमानः ।