३१

तेषां यश्चमसानां रसोऽवाङैत्तेऽवरोधा अभवन्नथ य ऊर्ध्वस्तानि फलान्येष ह वाव क्षत्रियः स्वाद्भक्षान्नैति यो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्युपाह परोक्षेणैव सोमपीथमाप्नोति नास्य प्रत्यक्षम्भक्षितो भवति परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः परोक्षमिवैष ब्रह्मणो रूपमुपनिगछति यत्क्षत्रियः पुरोधयैव दीक्षयैव प्रवरेणैव क्षत्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः क्षत्रं राजन्यो नितत इव हीह क्षत्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव नितत इव न्यग्रोधोऽवरोधैर्भूम्याम्प्रतिष्ठित इव तद्यत्क्षत्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्यात्मन्येव तत्क्षत्रं वनस्पतीनाम्प्रतिष्ठापयति क्षत्र आत्मानं क्षत्र ह वै स आत्मनि क्षत्रं वनस्पतीनाम्प्रतिष्ठापयति न्यग्रोध इवावरो-धैर्भूम्याम्प्रति राष्ट्रे तिष्ठत्युग्रं हास्य राष्ट्रमव्यथ्यम्भवति य एवमेतम्भक्षम्भक्षयति

क्षत्रियो यजमानः ३१