३०

विश्वास-प्रस्तुतिः

एते वै ते त्रयो भक्षा राजन्निति होवाच येषामाशां नेयात्क्षत्त्रियो यजमानः ।

Haug

(Which Portion the King should Choose at the Sacrifice. The Origin and Meaning of Nyagrodha.)

These are the three portions (bhakṣas,) O King, of which the Kṣattriya, when performing a sacrifice, must choose none.

मूलम्

एते वै ते त्रयो भक्षा राजन्निति होवाच येषामाशां नेयात्क्षत्त्रियो यजमानः ।

विश्वास-प्रस्तुतिः

अथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि प्लाक्षाण्यभिषुणुयात्तानि भक्षयेत् ।

Haug

But the following is his own portion, which he is to enjoy. He must squeeze the airy descending roots of the Nyagrodha tree, together with the fruits of the Udumbara, Aśvattha, and Plakṣa trees, and drink the juice of them.

मूलम्

अथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि प्लाक्षाण्यभिषुणुयात्तानि भक्षयेत् ।

विश्वास-प्रस्तुतिः

सो ऽस्य स्वो भक्षः ।

Haug

This is his own portion.

मूलम्

सो ऽस्य स्वो भक्षः ।

विश्वास-प्रस्तुतिः

यतो वा अधि देवा यज्ञेनेष्ट्वा स्वर्गं लोकमायन् ।

Haug

(For the origin of the Nyagrodha tree is as follows): When the gods, after the (successful) performance of their sacrifice, went up to heaven,

मूलम्

यतो वा अधि देवा यज्ञेनेष्ट्वा स्वर्गं लोकमायन् ।

विश्वास-प्रस्तुतिः

तत्रैतांश्चमसान्न्युब्जंस्ते न्यग्रोधा अभवन् ।

Haug

they tilted over (ny-ubjan) the Soma cups, whence the Nyagrodha trees grew up.

मूलम्

तत्रैतांश्चमसान्न्युब्जंस्ते न्यग्रोधा अभवन् ।

विश्वास-प्रस्तुतिः

न्युब्जा इति हाप्येनानेतर्ह्याचक्षते कुरुक्षेत्रे ते ह प्रथमजा न्यग्रोधानां तेभ्यो हान्ये ऽधिजाताः ।

Haug

And by the name of Nyubja, i.e., tilted over, they are now called in Kurukṣetra, where they grew first; from them all the others originated.

मूलम्

न्युब्जा इति हाप्येनानेतर्ह्याचक्षते कुरुक्षेत्रे ते ह प्रथमजा न्यग्रोधानां तेभ्यो हान्ये ऽधिजाताः ।

विश्वास-प्रस्तुतिः

ते यन्न्यञ्चो ऽरोहंस्तस्मान्यङ्रोहति न्यग्रोहः ।

Haug

They grew descending the roots (nyañcho rohanti). Therefore what grows downwards, is a downward growth (nyagroha);

मूलम्

ते यन्न्यञ्चो ऽरोहंस्तस्मान्यङ्रोहति न्यग्रोहः ।

विश्वास-प्रस्तुतिः

न्यग्रोहो वै नाम तन्न्यग्रोहं सन्तं न्यग्रोध इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः ।

Haug

and for this name, signifying “downward growth,” they called the tree “Nyagrodha.”[8] It is called by the name Nyagrodha, whose meaning is hidden (to men), and not by the more intelligible name Nyagroha, for the gods like to conceal the very names of objects from men, and call them by names unintelligible to them.

Haug - Notes

[8]The word is traced to the root ruh, to grow, the older form of which is rudh; compare avoradha, “the descending roots.”

मूलम्

न्यग्रोहो वै नाम तन्न्यग्रोहं सन्तं न्यग्रोध इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः ।