३०

एते वै ते त्रयो भक्षा राजन्निति होवाच येषामाशां नेयात्क्षत्रियो यजमा-नोऽथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि प्लाक्षाण्यभिषुणुयात्तानि भक्षयेत्सोऽस्य स्वो भक्षो यतो वा अधि देवा यज्ञेनेष्ट्वा स्वर्गं लोकमायंस्तत्रैतांश्चमसान्न्युब्जंस्ते न्यग्रोधा अभवन्न्युब्जा इति हाप्ये-नानेतर्ह्याचक्षते कुरुक्षेत्रे ते ह प्रथमजा न्यग्रोधानां तेभ्यो हान्येऽधिजातास्ते यन्न्यञ्चोऽरोहंस्तस्मान्न्यङ्रोहति न्यग्रोहो न्यग्रोहो वै नाम तं न्यग्रोहं सन्तं

न्यग्रोध इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः ३०