२९

विश्वास-प्रस्तुतिः

त्रयाणां भक्षाणामेकमाहरिष्यन्ति सोमं वा दधि वा ऽपो वा ।

Haug

(Which Portions of Sacrificial Drink the King has to Avoid.)

The priests may take any one of the three portions (which are to be left), either Soma, or curds, or water.

मूलम्

त्रयाणां भक्षाणामेकमाहरिष्यन्ति सोमं वा दधि वा ऽपो वा ।

विश्वास-प्रस्तुतिः

स यदि सोमं ब्राह्मणानां स भक्षो ब्राह्मणांस्तेन भक्षेण जिन्विष्यसि ।

Haug

When they take the Soma, which is the portion allotted to Brāhmaṇas, then thou wilt favour the Brāhmaṇas by it.[7]

Haug - Notes

[7]That is to say, thou wilt, when regenerated in thy son and grandson, be accepted by the Brahmaṇas as a member of their caste.

मूलम्

स यदि सोमं ब्राह्मणानां स भक्षो ब्राह्मणांस्तेन भक्षेण जिन्विष्यसि ।

विश्वास-प्रस्तुतिः

ब्राह्मणकल्पस्ते प्रजायामाजनिष्यत आदाय्यापाय्यावसायी यथाकामप्रयाप्यः ।

Haug

Thy progeny will be distinguished by the characteristics of the Brāhmaṇa; for they will be ready to take gifts, thirsty after drinking (Soma), and hungry of eating food, and ready to roam about everywhere according to their pleasure.

मूलम्

ब्राह्मणकल्पस्ते प्रजायामाजनिष्यत आदाय्यापाय्यावसायी यथाकामप्रयाप्यः ।

विश्वास-प्रस्तुतिः

यदा वै क्षत्त्रियाय पापं भवति ब्राह्मणकल्पो ऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्युपैतोः स ब्रह्मबन्धवेन जिज्यूषितः ।

Haug

When there is any fault on the Kṣattriya (who, when sacrificing, eats the Brāhmaṇa portion), then his progeny has the characteristics of a Brāhmaṇa; but in the second or third generation he is then capable of entering completely the Brāhmaṇaship, and he will have the desire of living with the Brāhmaṇic fraternity.

मूलम्

यदा वै क्षत्त्रियाय पापं भवति ब्राह्मणकल्पो ऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्युपैतोः स ब्रह्मबन्धवेन जिज्यूषितः ।

विश्वास-प्रस्तुतिः

अथ यदि दधि वैश्यानां स भक्षो वैश्यांस्तेन भक्षेण जिन्विष्यसि ।

Haug

When they take the curds, which is the share of the Vaiśyas, then thou wilt favour the Vaiśyas by it (and consequently be brought near them).

मूलम्

अथ यदि दधि वैश्यानां स भक्षो वैश्यांस्तेन भक्षेण जिन्विष्यसि ।

विश्वास-प्रस्तुतिः

वैश्यकल्पस्ते प्रजायामाजनिष्यते ऽन्यस्य बलिकृदन्यस्या ऽऽद्यो यथाकामज्येयः ।

Haug

Thy offspring will be born with the characteristics of the Vaiśyas, paying taxes to another king, to be enjoyed by another; they will be oppressed according to the pleasure of the king.

मूलम्

वैश्यकल्पस्ते प्रजायामाजनिष्यते ऽन्यस्य बलिकृदन्यस्या ऽऽद्यो यथाकामज्येयः ।

विश्वास-प्रस्तुतिः

यदा वै क्षत्त्रियाय पापं भवति वैश्यकल्पो ऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा वैश्यतामभ्युपैतोः स वैश्यतया जिज्यूषितः ।

Haug

When there is any fault on the Kṣattriya (who, when sacrificing, eats the Vaiśya portion), then his progeny is born with the characteristics of a Vaiśya; and in the second or third degree, they are capable of entering the caste of the Vaiśyas, and are desirous of living in the condition of a Vaiśya (i.e., they will have the nature of a Vaiśya).

मूलम्

यदा वै क्षत्त्रियाय पापं भवति वैश्यकल्पो ऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा वैश्यतामभ्युपैतोः स वैश्यतया जिज्यूषितः ।

विश्वास-प्रस्तुतिः

अथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि ।

Haug

When thou takest the water, which is the share of the Śûdras, then thou wilt please the Śûdras by it.

मूलम्

अथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि ।

विश्वास-प्रस्तुतिः

शूद्रकल्पस्ते प्रजायामाजनिष्यते ऽन्यस्य प्रेष्यः कामोत्थाप्यो यथाकामवध्यः ।

Haug

Thy progeny will have the characteristics of the Śûdras, they are to serve another the three higher castes, to be expelled and beaten according to the pleasure (of their masters.)

मूलम्

शूद्रकल्पस्ते प्रजायामाजनिष्यते ऽन्यस्य प्रेष्यः कामोत्थाप्यो यथाकामवध्यः ।

विश्वास-प्रस्तुतिः

यदा वै क्षत्रियाय पापं भवति शूद्र कल्पो ऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा शूद्रतामभ्युपैतोः स शूद्रतया जिज्यूषितः ।

Haug

When there is any fault on the Kṣattriya (who, when sacrificing, eats the Śûdra portion), then his offspring will be born with the characteristics of the Śûdras; and in the second or third degree, he is capable of entering the condition of the Śûdras, and will be desirous of passing his life in that condition.

मूलम्

यदा वै क्षत्रियाय पापं भवति शूद्र कल्पो ऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा शूद्रतामभ्युपैतोः स शूद्रतया जिज्यूषितः ।