यत्रेन्द्रं देवताः पर्यवृञ्जन्विश्वरूपं त्वाष्ट्रमभ्यमंस्त वृत्रमस्तृत यतीन्सालावृकेभ्यः प्रादादरुरुमघानवधीद्बृहस्पतेः प्रत्यवधीदिति तत्रेन्द्रः सोमपीथेन व्यार्ध्यते-न्द्र स्यानु व्यृद्धिं क्षत्रं सोमपीथेन व्यार्ध्यतापीन्द्रः सोमपीथेऽभवत्त्वष्टुरामुष्य सोमं तद्व्यृद्धमेवाद्यापि क्षत्रं सोमपीथेन स यस्तम्भक्षं विद्याद्यः क्षत्रस्य सोमपिथेन व्यृइद्धस्य येन क्षत्रं समृध्यते कथं तं वेदेरुत्थापयन्तीति वेत्थ ब्राह्मण त्वं तम्भक्षाम् वेद हीति तं वै नो ब्राह्मण ब्रूहीति तस्मै वै ते राजन्निति
होवाच २८