विश्वंतरो ह सौषद्मनः श्यापर्णान्परिचक्षाणो विश्यापर्णं यज्ञमाजह्रे तद्धानुबुध्य श्यापर्णास्तं यज्ञमाजग्मुस्ते ह तदन्तर्वेद्यासां चक्रिरे तान्ह दृष्ट्वोवाच पापस्य वा इमे कर्मणः कर्तार आसतेऽपूतायै वाचो वदितारो यच्छ्यापर्णा इमानुत्थापयतेमे मेऽन्तर्वेदि मासिषतेति तथेति तानुत्थापयां चक्रुस्ते होत्थाप्यमाना रुरुविरे ये तेभ्यो भूतवीरेभ्योऽसितमृगाः कश्यपानां सोमपीथमभिजिग्युः पारिक्षितस्य जनमेजयस्य विकश्यपे यज्ञे तैस्ते तत्र वीरवन्त आसुः कः स्वित्सोऽस्मा-कोऽस्ति वीरो य इमं सोमपीथमभिजेष्यतीत्ययमहमस्मि वो वीर इति होवाच रामो मार्गवेयो रामो हास मार्गवेयोऽनूचानः श्यापर्णीयस्तेषां होत्ति-ष्ठतामुवाचापि नु राजन्नित्थंविदं वेदेरुत्थापयन्तीति यस्त्वं कथं वेत्थ
ब्रह्मबन्धविति २७