विश्वास-प्रस्तुतिः
अथातो यजमानभागस्यैव ।
Haug
(The Kṣattriya is Not Allowed to Eat Sacrificial Food. The Brahma Priest Eats his Portion for Him.)
As regards the portion of sacrificial food which is to be eaten by the sacrificer,
मूलम्
अथातो यजमानभागस्यैव ।
विश्वास-प्रस्तुतिः
तदाहुः प्राश्नीयात्क्षत्त्रियो यजमानभागा३म् न प्राश्नीया३त् इति ।
Haug
they ask, whether the Kṣattriya should eat, or whether he should not eat it?
मूलम्
तदाहुः प्राश्नीयात्क्षत्त्रियो यजमानभागा३म् न प्राश्नीया३त् इति ।
विश्वास-प्रस्तुतिः
यत्प्राश्नीयादहुताद्धुतं प्राश्य पापीयान्स्यात् ।
Haug
They say, if he eat, then he commits a great sin, as having eaten sacrificial food, although he is an ahutād (one not permitted to eat).
मूलम्
यत्प्राश्नीयादहुताद्धुतं प्राश्य पापीयान्स्यात् ।
विश्वास-प्रस्तुतिः
यन्न प्राश्नीयाद्यज्ञादात्मानमन्तरियात् ।
Haug
If he do not eat, then he cuts himself off from the sacrifice (with which he was connected).
मूलम्
यन्न प्राश्नीयाद्यज्ञादात्मानमन्तरियात् ।
विश्वास-प्रस्तुतिः
यज्ञो वै यजमानभागः स ब्रह्मणे परिहृत्यः ।
Haug
For the portions to be eaten by the sacrificer, is the sacrifice. This is to be made over to the Brahma priest.
मूलम्
यज्ञो वै यजमानभागः स ब्रह्मणे परिहृत्यः ।
विश्वास-प्रस्तुतिः
पुरोहितायतनं वा एतत्क्षत्त्रियस्य यद्ब्रह्मा ।
Haug
For the Brahma priest of the Kṣattriya is in the place of (his) Purohita.
मूलम्
पुरोहितायतनं वा एतत्क्षत्त्रियस्य यद्ब्रह्मा ।
विश्वास-प्रस्तुतिः
अर्धात्मो ह वा एष क्षत्त्रियस्य यत्पुरोहितः ।
Haug
The Purohita is the one-half of the Kṣattriya;
मूलम्
अर्धात्मो ह वा एष क्षत्त्रियस्य यत्पुरोहितः ।
विश्वास-प्रस्तुतिः
उपाह परोक्षेणैव प्राशितरूपमाप्नोति नास्य प्रत्यक्षं भक्षितो भवति ।
Haug
only through the intervention of another (the Brahma priest) the portion appears to be eaten by him, though he does not eat it with his own mouth.
मूलम्
उपाह परोक्षेणैव प्राशितरूपमाप्नोति नास्य प्रत्यक्षं भक्षितो भवति ।
विश्वास-प्रस्तुतिः
यज्ञ उ ह वा एष प्रत्यक्षं यद्ब्रह्मा ।
Haug
For the sacrifice is there where the Brahma (priest) is.
मूलम्
यज्ञ उ ह वा एष प्रत्यक्षं यद्ब्रह्मा ।
विश्वास-प्रस्तुतिः
ब्रह्मणि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानः ।
Haug
The entire sacrifice is placed in the Brahma, and the sacrificer is in the sacrifice.
मूलम्
ब्रह्मणि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानः ।
विश्वास-प्रस्तुतिः
यज्ञ एव तद्यज्ञमप्यत्यर्जन्ति यथा ऽप्स्वापो यथा ऽग्नावग्निम् ।
Haug
They throw the sacrifice (in the shape of the portion which is to be eaten by the sacrificer) into the sacrifice (which has the form of the Brahma), just as they throw water into water, fire into fire,
मूलम्
यज्ञ एव तद्यज्ञमप्यत्यर्जन्ति यथा ऽप्स्वापो यथा ऽग्नावग्निम् ।
विश्वास-प्रस्तुतिः
तद्वै नातिरिच्यते तदेनं न हिनस्ति ।
Haug
without making it overflow, nor causing any injury to the sacrificer.
मूलम्
तद्वै नातिरिच्यते तदेनं न हिनस्ति ।
विश्वास-प्रस्तुतिः
तस्मात्स ब्रह्मणे परिहृत्यः ।
Haug
Therefore, is this portion to be eaten by the sacrificer (if he be a Kṣattriya) to be given up to the Brahmā.
मूलम्
तस्मात्स ब्रह्मणे परिहृत्यः ।
विश्वास-प्रस्तुतिः
अग्नौ हैके जुह्वति प्रजापतेर्विभान्नाम लोकस्तस्मिंस्त्वा दधामि सह यजमानेन स्वाहेति ।
Haug
Some sacrificial priests, however, sacrifice this portion to the fire, saying, “I place thee in Prajāpati’s world, which is called vibhān (shining everywhere), to be joined to the sacrificer, Svāhā !”
मूलम्
अग्नौ हैके जुह्वति प्रजापतेर्विभान्नाम लोकस्तस्मिंस्त्वा दधामि सह यजमानेन स्वाहेति ।
विश्वास-प्रस्तुतिः
तत्तथा न कुर्यात् ।
Haug
But thus the sacrificial priest ought not to proceed.
मूलम्
तत्तथा न कुर्यात् ।
विश्वास-प्रस्तुतिः
यजमानो वै यजमानभागः ।
Haug
For the portion to be eaten by the sacrificer is the sacrificer himself.
मूलम्
यजमानो वै यजमानभागः ।
विश्वास-प्रस्तुतिः
यजमानं ह सो ऽग्नौ प्रवृणक्ति य एनं तत्र ब्रूयाद्यजमानमग्नौ प्रावार्क्षीः प्रास्याग्निः प्राणान्धक्ष्यति मरिष्यति यजमान इति शश्वत्तथा स्यात् ।
Haug
What priest, therefore, asserts this, burns the sacrificer in the fire. (If anyone should observe a priest doing so) he ought to tell him, “Thou hast singed the sacrificer in the fire. Agni will burn his breaths, and he will consequently die.” Thus it always happens.
मूलम्
यजमानं ह सो ऽग्नौ प्रवृणक्ति य एनं तत्र ब्रूयाद्यजमानमग्नौ प्रावार्क्षीः प्रास्याग्निः प्राणान्धक्ष्यति मरिष्यति यजमान इति शश्वत्तथा स्यात् ।
विश्वास-प्रस्तुतिः
तस्मात्तस्या ऽऽशां नेयादाशां नेयात् ।
Haug
Therefore he should not think of doing so.
मूलम्
तस्मात्तस्या ऽऽशां नेयादाशां नेयात् ।