अथातो यजमानभागस्यैव तदाहुः प्राश्नीयात्क्षत्रियो यजमानभागां न प्राश्नीयादिति यत्प्राश्नीयादहुताद्धुतम्प्राश्य पापीयान्स्याद्यन्न प्राश्नीयाद्य-ज्ञादात्मानमन्तरियाद्यज्ञो वै यजमानभागः स ब्रह्मणे परिहृत्यः पुरोहितायतनं वा एतत्क्षत्रियस्य यद्ब्रह्मार्धात्मो ह वा एष क्षत्रियस्य यत्पुरोहित उपाह परोक्षेणैव प्राशितरूपमाप्नोति नास्य प्रत्यक्षम्भक्षितो भवति यज्ञ उ ह वा एष प्रत्यक्षं यद्ब्रह्मा ब्रह्मणि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानो यज्ञ एव तद्यज्ञमप्यत्यर्जन्ति यथाप्स्वापो यथाग्नावग्निं तद्वै नातिरिच्यते तदेनं न हिनस्ति तस्मात्स ब्रह्मणे परिहृत्योऽग्नौ हैके जुह्वति प्रजापतेर्विभान्नाम लोकस्तस्मिंस्त्वा दधामि सह यजमानेन स्वाहेति तत्तथा न कुर्याद्यजमानो वै यजमानभागो यजमानं ह सोऽग्नौ प्रवृणक्ति य एनं तत्र ब्रूयाद्यजमानमग्नौ प्रावार्क्षीः प्रास्याग्निः प्राणान्धक्ष्यति मरिष्यति यजमान इति शश्वत्तथा स्यात्तस्मात्तस्याशां नेयादाशां
नेयात् २६
४