२५

अथातो दीक्षाया आवेदनस्यैव तदाहुर्यद्ब्राह्मणस्य दीक्षितस्य ब्राह्मणो-ऽदीक्षिष्टेति दीक्षामावेदयन्ति कथं क्षत्रियस्यावेदयेदिति यथैवैतद्ब्राह्मणस्य दीक्षितस्य ब्राह्मणोऽदीक्षिष्टेति दीक्षामवेदयन्त्येवमेवैतत्क्षत्रियस्यावेदयेत्पुरो-हितस्यार्षेयेणेति तत्तदितीँ निधाय वा एष स्वान्यायुधानि ब्रह्माण एवायु-धैर्ब्रह्मणो रूपेणा ब्रह्म भूत्वा यज्ञमुपावर्तत तस्मात्तस्य पुरोहितस्यार्षेयेण

दीक्षामावेदयेयुः पुरोहितस्यार्षेयेण प्रवरम्प्रवृणीरन् २५