अथाग्नेयो वै देवतया क्षत्रियो दीक्षितो भवति गायत्रश्छन्दसा त्रिवृत्स्तोमेन ब्राह्मणो बन्धुना स होदवस्यन्नेव क्षत्रियतामभ्युपैति तस्य होदवस्यतोऽग्निरेव तेज आदत्ते गायत्री वीर्यं त्रिवृत्स्तोम आयुर्ब्राह्मणा ब्रह्म यशस्कीर्तिमन्यो वा अयमस्मद्भवति क्षत्रं वा अयम्भवति क्षत्रं वा अयमुपावर्तत इति वदन्तः सोऽनूबन्ध्यायै समिष्टयजुषामुपरिष्टाद्धुत्वाहुतिमाहवनीयमुपतिष्ठेत नाग्नेर्देव-ताया एमि न गायत्र्याश्छन्दसो न त्रिवृतः स्तोमान्न ब्रह्मणो बन्धोर्मा मेऽग्निस्तेज आदित मा गायत्री वीर्यम्मा त्रिवृत्स्तोम आयुर्मा ब्राह्मणा ब्रह्म यशस्कीर्तिं सह तेजसा वीर्येणायुषा ब्रह्मणा यशसा कीर्त्येन्द्रं देवतामुपैमि त्रिष्टुभं छन्दः पञ्चदशं स्तोमं सोमं राजानं क्षत्रम्प्रपद्ये क्षत्रियो भवामि देवाः पितरः पितरो देवा योऽस्मि स सन्यजे स्वम्म इदमिष्टं स्वम्पूर्तं स्वं श्रान्तं स्वं हुतन्तस्य मेऽयम-ग्निरुपद्र ष्टायं वायुरुपश्रोतासावादित्योऽनुख्यातेदमहं य एवास्मि सोऽस्मीति तस्य ह नाग्निस्तेज आदत्ते न गायत्री वीर्यं न त्रिवृत्स्तोम आयुर्न ब्राह्मणा ब्रह्म यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाहवनीयमुपस्थायोदवस्यति क्षत्रियः सन्
२४