अथैन्द्रो वै देवतया क्षत्रियो भवति त्रैष्टुभश्छन्दसा पञ्चदशः स्तोमेन सोमो राज्येन राजन्यो बन्धुना स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत्कृ-ष्णाजिनमध्यूहति यद्दीक्षितव्रतं चरति यदेनम्ब्राह्मणा अभिसंगछन्ते तस्य ह दीक्षमाणस्येन्द्र एवेन्द्रि यमादत्ते त्रिष्टुब्वीर्यम्पञ्चदशः स्तोम आयुः सोमो रा-ज्यम्पितरो यशस्कीर्तिमन्यो वा अयमस्मद्भवति ब्रह्म वा अयम्भवति ब्रह्म वा अयमुपावर्तत इति वदन्तः स पुरस्ताद्दीक्षाया आहुतिं हुत्वाहवनीयमुपतिष्ठेत नेन्द्रा द्देवताया एमि न त्रिष्टुभश्छन्दसो न पञ्चदशत्स्तोमान्न सोमाद्रा ज्ञो न पित्र्याद्बन्धोर्मा म इन्द्र इन्द्रि यमादित मा त्रिष्टुब्वीर्यम्मा पञ्चदशः स्तोम आयुर्मा सोमो राज्यम्मा पितरो यशस्कीर्तिं सहेन्द्रि येण वीर्येणायुषा राज्येन यशसा बन्धुनाग्निमुपैमि गायत्रीं छन्दस्त्रिवृतं स्तोमं सोमं राजानम्ब्रह्म प्रपद्ये ब्राह्मणो भवामीति तस्य ह नेन्द्र इन्द्रि यमादत्ते न त्रिष्टुब्वीर्यं न पञ्चदशः स्तोम आयुर्न सोमो राज्यं न पितरो यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाहवनीयमुपस्थाया
दीक्षते क्षत्रियः सन् २३