विश्वास-प्रस्तुतिः
अथैन्द्रो वै देवतया क्षत्त्रियो भवति त्रैष्टुभश्छन्दसा पञ्चदशः स्तोमेन सोमो राज्येन राजन्यो बन्धुना ।
Haug
(The King is, Before Sacrificing, Made a Brahman, but he must Lose his Royal Qualifications.)
As regards the deity, the royal prince (Kṣattriya) belongs to Indra; regarding the metre he belongs to the Triṣṭubh; regarding the Stoma, he belongs to that one which is fifteen-fold. As to his sovereignty, he is Soma (king of the gods); as to his relationship, he belongs to the royal order.
मूलम्
अथैन्द्रो वै देवतया क्षत्त्रियो भवति त्रैष्टुभश्छन्दसा पञ्चदशः स्तोमेन सोमो राज्येन राजन्यो बन्धुना ।
विश्वास-प्रस्तुतिः
स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत्कृष्णाजिनमध्यूहति यद्दीक्षितव्रतं चरति यदेनं ब्राह्मणा अभिसंगच्छन्ते ।
Haug
And, if inaugurated into the sacrificial rites, he enters even the Brahmanship at the time when he covers himself with the black goatskin, and enters on the observances enjoined to an inaugurated one, and Brahmans surround him.
मूलम्
स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत्कृष्णाजिनमध्यूहति यद्दीक्षितव्रतं चरति यदेनं ब्राह्मणा अभिसंगच्छन्ते ।
विश्वास-प्रस्तुतिः
तस्य ह दीक्षमाणस्येन्द्र एवेन्द्रियमादत्ते त्रिष्टुब्वीर्यं पञ्चदशस्तोम आयुः सोमो राज्यं पितरो यशस्कीर्तिम् ।
Haug
When he is initiated in such a manner, then Indra takes away from him sharpness of senses, Triṣṭubh strength, the fifteen-fold Stoma the life, Soma takes away the royal power, the Pitaras (manes) glory and fame.
मूलम्
तस्य ह दीक्षमाणस्येन्द्र एवेन्द्रियमादत्ते त्रिष्टुब्वीर्यं पञ्चदशस्तोम आयुः सोमो राज्यं पितरो यशस्कीर्तिम् ।
विश्वास-प्रस्तुतिः
अन्यो वा अयमस्मद्भवति ब्रह्म वा अयं भवति ब्रह्म वा अयमुपावर्तत इति वदन्तः ।
Haug
(For they say) “he has estranged himself from us; for he is the Brahma; he has turned to the Brahma.”
मूलम्
अन्यो वा अयमस्मद्भवति ब्रह्म वा अयं भवति ब्रह्म वा अयमुपावर्तत इति वदन्तः ।
विश्वास-प्रस्तुतिः
स पुरस्ताद्दीक्षाया आहुतिं हुत्वा ऽऽहवनीयमुपतिष्ठेत नेन्द्राद्देवताया एमि न त्रिष्टुभश्छन्दसो न पञ्चदशात्स्तोमान्न सोमाद्राज्ञो न पित्र्याद्बन्धोः ।
Haug
The royal prince then, after having brought an invocation offering before the inauguration, shall stand near the Ahavaniya fire, and say, “I do not leave Indra as my deity, nor the Triṣṭubh as (my) metre, nor the fifteen-fold Stoma, nor the king Soma, nor the kinship of the Pitaras.
मूलम्
स पुरस्ताद्दीक्षाया आहुतिं हुत्वा ऽऽहवनीयमुपतिष्ठेत नेन्द्राद्देवताया एमि न त्रिष्टुभश्छन्दसो न पञ्चदशात्स्तोमान्न सोमाद्राज्ञो न पित्र्याद्बन्धोः ।
विश्वास-प्रस्तुतिः
मा म इन्द्र इन्द्रियमादित मा त्रिष्टुब्वीर्यं मा पञ्चदशस्तोम आयुर्मा सोमो राज्यं मा पितरो यशस्कीर्तिम् ।
Haug
May therefore Indra not take from me the skill, nor the Triṣṭubh the strength, nor the fifteen-fold Stoma the life, nor Soma the royal power, nor the Pitaras glory and renown.
मूलम्
मा म इन्द्र इन्द्रियमादित मा त्रिष्टुब्वीर्यं मा पञ्चदशस्तोम आयुर्मा सोमो राज्यं मा पितरो यशस्कीर्तिम् ।
विश्वास-प्रस्तुतिः
सहेन्द्रियेण वीर्येणा ऽऽयुषा राज्येन यशसा बन्धुना ऽग्निं देवतामुपैमि गायत्रीं छन्दस्त्रिवृतं स्तोमं सोमं राजानं ब्रह्म प्रपद्ये ब्राह्मणो भवामीति ।
Haug
I approach here Agni as (my) deity with sharpness of senses, strength, life (vigour), renown and kinship. I go to the Gāyatri metre, to the three-fold Stoma, to Soma the king, to the Brahma, I become a Brāhmaṇa.”
मूलम्
सहेन्द्रियेण वीर्येणा ऽऽयुषा राज्येन यशसा बन्धुना ऽग्निं देवतामुपैमि गायत्रीं छन्दस्त्रिवृतं स्तोमं सोमं राजानं ब्रह्म प्रपद्ये ब्राह्मणो भवामीति ।
विश्वास-प्रस्तुतिः
तस्य ह नेन्द्र इन्द्रियमादत्ते न त्रिष्टुब्वीर्यं न पञ्चदशस्तोम आयुर्न सोमो राज्यं न पितरो यशस्कीर्तिं य एवमेतामाहुतिं हुत्वा ऽऽहवनीयमुपस्थाय दीक्षते क्षत्त्रियः सन् ।
Haug
When he, standing before the Ahavaniya fire, brings this invocation offering, then, although he be Kṣattriya (by birth, no Brahman), Indra does not take from him sharpness of senses, nor Triṣṭubh strength, &c.
मूलम्
तस्य ह नेन्द्र इन्द्रियमादत्ते न त्रिष्टुब्वीर्यं न पञ्चदशस्तोम आयुर्न सोमो राज्यं न पितरो यशस्कीर्तिं य एवमेतामाहुतिं हुत्वा ऽऽहवनीयमुपस्थाय दीक्षते क्षत्त्रियः सन् ।