२२

तदु ह स्माह सौजात आराळ्हिरजीतपुनर्वण्यं वा एतद्यदेते आहुती इति यथा ह कामयेत तथैते कुर्याद्य इतोऽनुशासनं कुर्यादितीमे त्वेव जुहुयाद्ब्रह्म प्रपद्ये ब्रह्म माक्षत्राद्गोपायतु ब्रह्मणे स्वाहेति तत्तदितीँ ब्रह्म वा एष प्रपद्यते यो यज्ञम्प्रपद्यते ब्रह्म वै यज्ञो यज्ञादु ह वा एष पुनर्जायते यो दीक्षते तम्ब्रह्म प्रपन्नं क्षत्रं न परिजिनाति ब्रह्म मा क्षत्राद्गोपायत्वित्याह यथैनम्ब्रह्म क्षत्राद्गोपा-येद्ब्रह्मणे स्वाहेति तदेनत्प्रीणाति तदेनत्प्रीतं क्षत्राद्गोपायत्यथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात्क्षत्रम्प्रपद्ये क्षत्रम्मा ब्रह्मणो गोपायतु क्षत्राय स्वाहेति तत्तदितीँ क्षत्रं वा एष प्रपद्यते यो राष्ट्रम्प्रपद्यते क्षत्रं हि राष्ट्रं तं क्षत्रम्प्रपन्नम्ब्रह्म न परिजिनाति क्षत्रम्मा ब्रह्मणो गोपायत्वित्याह यथैनं क्षत्रम्ब्रह्मणो गोपा-येत्क्षत्राय स्वाहेति तदेनत्प्रीणाति तदेनत्प्रीतम्ब्रह्मणो गोपायति सैषेष्टापूर्तस्यैवापरिज्यानिः क्षत्रियस्य यजमानस्य यदेते आहुती तस्मादेते एव होतव्ये

२२