२२

विश्वास-प्रस्तुतिः

तदु ह स्मा ऽऽह सौजात आराळ्हिरजीतपुनर्वण्यं वा एतद्यदेते आहुती इति ।

Haug

(The Ajitapunarvaṇya[4] Offerings.)

Sujâta, the son of Arâlha, said that it is optional for the king to perform (besides the ceremony mentioned in 21) the two invocation offerings, called Ajitapunarvaṇya.

Haug - Notes

[4]In some MSS, and in Sâyaṇa’s commentary, this name is written: ajîlapunarvarṇya. It means “the recovering of what is not to be lost.” This refers to the Kṣattra which the Kṣattriya first lost by his turning towards the Brahma, but regained by his subsequently embracing the Kṣattra again, which he cannot throw off if he otherwise wish to retain his sovereignty.

मूलम्

तदु ह स्मा ऽऽह सौजात आराळ्हिरजीतपुनर्वण्यं वा एतद्यदेते आहुती इति ।

विश्वास-प्रस्तुतिः

यथा ह कामयेत तथैते कुर्याद्य इतो ऽनुशासनं कुर्यादिति ।

Haug

He may bring them if he like to do so.

मूलम्

यथा ह कामयेत तथैते कुर्याद्य इतो ऽनुशासनं कुर्यादिति ।

विश्वास-प्रस्तुतिः

इमे त्वेव जुहुयाद्ब्रह्म प्रपद्ये ब्रह्म मा क्षत्त्राद्गोपायतु ब्रह्मणे स्वाहेति ।

Haug

He who, following the advice of Sujâta, brings these two invocation offerings, shall say, “I turn towards the Brahma, may it protect me from the Kṣattra, Svâhâ to the Brahma!”

मूलम्

इमे त्वेव जुहुयाद्ब्रह्म प्रपद्ये ब्रह्म मा क्षत्त्राद्गोपायतु ब्रह्मणे स्वाहेति ।

विश्वास-प्रस्तुतिः

तत्तदितीँ ३ ।

Haug

“This, this is certainly the case,” thus say the sacrificial priests (when this mantra is spoken by the king).

मूलम्

तत्तदितीँ ३ ।

विश्वास-प्रस्तुतिः

ब्रह्म वा एष प्रपद्यते यो यज्ञं प्रपद्यते ब्रह्म वै यज्ञः ।

Haug

The meaning of this formula is, He who turns towards the sacrifice, turns towards the Brahma; for the sacrifice is the Brahma;

मूलम्

ब्रह्म वा एष प्रपद्यते यो यज्ञं प्रपद्यते ब्रह्म वै यज्ञः ।

विश्वास-प्रस्तुतिः

यज्ञादु ह वा एष पुनर्जायते यो दीक्षते ।

Haug

he, who undergoes the inauguration ceremony, is born again from the sacrifice.

मूलम्

यज्ञादु ह वा एष पुनर्जायते यो दीक्षते ।

विश्वास-प्रस्तुतिः

तं ब्रह्म प्रपन्नं क्षत्त्रं न परिजिनाति ।

Haug

He who has turned towards the Brahma, the Kṣattra does not forsake.

मूलम्

तं ब्रह्म प्रपन्नं क्षत्त्रं न परिजिनाति ।

विश्वास-प्रस्तुतिः

ब्रह्म मा क्षत्त्राद्गोपायत्वित्याह यथैनं ब्रह्म क्षत्त्राद्गोपायेत् ।

Haug

He says, “May the Brahma protect me from the Kṣattra,” that is, the Brahma should protect him from the Kṣattra (which is persecuting him).

मूलम्

ब्रह्म मा क्षत्त्राद्गोपायत्वित्याह यथैनं ब्रह्म क्षत्त्राद्गोपायेत् ।

विश्वास-प्रस्तुतिः

ब्रह्मणे स्वाहेति तदेनत्प्रीणाति ।

Haug

By the words, Svâhâ to the Brahma! he pleases the Brahma;

मूलम्

ब्रह्मणे स्वाहेति तदेनत्प्रीणाति ।

विश्वास-प्रस्तुतिः

तदेनत्प्रीतं क्षत्त्राद्गोपायति ।

Haug

and, if pleased, it protects him from the Kṣattra.

मूलम्

तदेनत्प्रीतं क्षत्त्राद्गोपायति ।

विश्वास-प्रस्तुतिः

अथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात् क्षत्त्रं प्रपद्ये क्षत्त्रं मा ब्रह्मणो गोपायतु क्षत्त्राय स्वाहेति ।

Haug

Then, after the recital of the Samiṣṭa Yajus mantras, required for binding the sacrificial animal to the pillar, he repeats, “I turn towards the Kṣattra, may it protect me from the Brahma, Svâhâ to the Kṣattra.”

मूलम्

अथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात् क्षत्त्रं प्रपद्ये क्षत्त्रं मा ब्रह्मणो गोपायतु क्षत्त्राय स्वाहेति ।

विश्वास-प्रस्तुतिः

तत्तदितीँ ३ ।

Haug

“This, this is certainly the case;” thus they say.

मूलम्

तत्तदितीँ ३ ।

विश्वास-प्रस्तुतिः

क्षत्त्रं वा एष प्रपद्यते यो राष्ट्रं प्रपद्यते क्षत्त्रं हि राष्ट्रम् ।

Haug

He who turns towards the royal power (to assume it again) turns towards the Kṣattra. For the Kṣattra is the royal power.

मूलम्

क्षत्त्रं वा एष प्रपद्यते यो राष्ट्रं प्रपद्यते क्षत्त्रं हि राष्ट्रम् ।

विश्वास-प्रस्तुतिः

तं क्षत्त्रं प्रपन्नं ब्रह्म न परिजिनाति ।

Haug

When he has reached the Kṣattra, the Brahma does not leave him.

मूलम्

तं क्षत्त्रं प्रपन्नं ब्रह्म न परिजिनाति ।

विश्वास-प्रस्तुतिः

क्षत्त्रं मा ब्रह्मणो गोपायत्वित्याह यथैनं क्षत्त्रं ब्रह्मणो गोपायेत् ।

Haug

If he repeats the words, “May the Kṣattra protect me from the Brahma,” that is, the Kṣattra should protect him from the Brahma,

मूलम्

क्षत्त्रं मा ब्रह्मणो गोपायत्वित्याह यथैनं क्षत्त्रं ब्रह्मणो गोपायेत् ।

विश्वास-प्रस्तुतिः

क्षत्त्राय स्वाहेति तदेनत्प्रीणाति ।

Haug

Svâhâ to the Kṣattra!” he pleases this Kṣattra.

मूलम्

क्षत्त्राय स्वाहेति तदेनत्प्रीणाति ।

विश्वास-प्रस्तुतिः

तदेनत्प्रीतं ब्रह्मणो गोपायति ।

Haug

Pleased in this way, the Kṣattra protects him from the Brahma.

मूलम्

तदेनत्प्रीतं ब्रह्मणो गोपायति ।

विश्वास-प्रस्तुतिः

सैषेष्टापूर्तस्यैवापरिज्यानिः क्षत्त्रियस्य यजमानस्य यदेते आहुती ।

Haug

Both these offerings (ajîtapunarvaṇyam) are also calculated to preserve the sacrificing king from the loss of the Iṣṭāpūrta.

मूलम्

सैषेष्टापूर्तस्यैवापरिज्यानिः क्षत्त्रियस्य यजमानस्य यदेते आहुती ।

विश्वास-प्रस्तुतिः

तस्मादेते एव होतव्ये ।

Haug

Thence these two are (also) to be sacrificed.

मूलम्

तस्मादेते एव होतव्ये ।