अथात इष्टापूर्तस्यापरिज्यानिः क्षत्रियस्य यजमानस्य स पुरस्ताद्दीक्षाया आहुतिं जुहुयाच्चतुर्गृहीतमाज्यमाहवनीय इष्टापूर्तस्यापरिज्यान्यै पुनर्न इन्द्रो मघवा ददातु ब्रह्म पुनरिष्टम्पूर्तं दात्स्वाहेत्यथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात्पुनर्नो अग्निर्जातवेदा ददातु क्षत्रम्पुनरिष्टम्पूर्तं दात्स्वाहेति सैषेष्टापूर्तस्यापरिज्यानिः
क्षत्रियस्य यजमानस्य यदेते आहुती तस्मादेते होतव्ये २१