२०

अथातो देवयजनस्यैव याच्ञ्यश्तदाहुर्यद्ब्राह्मणो राजन्यो वैश्यो दीक्षिष्यमाणं क्षत्रियं देवयजनं याचति कं क्षत्रियो याचेदिति दैवं क्षत्रं याचेदित्याहुरादित्यो वै दैवं क्षत्रमादित्य एषाम्भूतानामधिपतिः स यदहर्दीक्षिष्यमाणो भवति तदहः पूर्वाह्ण एवोद्यन्तमादित्यमुपतिष्ठेतेदम्श्रेष्ठं ज्योतिषां ज्योतिरुत्तमम् देव सवित-र्देवयजनम्मे देहि देवयजनं इति देवयजनं याचति स यत्तत्र याचित उत्तरां सर्पत्यॐ तथा ददामीति हैव तदाह तस्य ह न का चन रिष्टिर्भवति देवेन सवित्रा प्रसूतस्योत्तरोत्तरिणीम्ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमुपस्थाय याचित्वा देवयजनमध्यवसाय दीक्षते क्षत्रियः सन् २०