१९

विश्वास-प्रस्तुतिः

प्रजापतिर्यज्ञमसृजत ।

Haug

(The Preliminary Rites of the Râjasûya Sacrifice)

(The Relationship between the Brahma and Kṣattra.)

After Prajāpati had created the sacrifice,

मूलम्

प्रजापतिर्यज्ञमसृजत ।

विश्वास-प्रस्तुतिः

यज्ञं सृष्टमनु ब्रह्मक्षत्त्रे असृज्येताम् ।

Haug

the Brahma (divine knowledge) and the Kṣattra (sovereignty) were produced.

मूलम्

यज्ञं सृष्टमनु ब्रह्मक्षत्त्रे असृज्येताम् ।

विश्वास-प्रस्तुतिः

ब्रह्मक्षत्त्रे अनु द्वय्यः प्रजा असृज्यन्त हुतादश्चाहुतादश्च ।

Haug

After both two kinds of creatures sprang up, such ones as eat the sacrificial food, and such ones as do not eat it.

मूलम्

ब्रह्मक्षत्त्रे अनु द्वय्यः प्रजा असृज्यन्त हुतादश्चाहुतादश्च ।

विश्वास-प्रस्तुतिः

ब्रह्मैवानु हुतादः क्षत्त्रमन्वहुताद ।

Haug

All eaters of the sacrificial food followed the Brahma, the non-eaters followed the Kṣattra.

मूलम्

ब्रह्मैवानु हुतादः क्षत्त्रमन्वहुताद ।

विश्वास-प्रस्तुतिः

एता वै प्रजा हुतादो यद्ब्राह्मणा अथैता अहुतादो यद्राजन्यो वैश्यः शूद्रः ।

Haug

Therefore, the Brahmans only are eaters of the sacrificial food; whilst the Kṣattriyas, Vaiśyas, and Śûdras do not eat it.

मूलम्

एता वै प्रजा हुतादो यद्ब्राह्मणा अथैता अहुतादो यद्राजन्यो वैश्यः शूद्रः ।

विश्वास-प्रस्तुतिः

ताभ्यो यज्ञ उदक्रामत् ।

Haug

The sacrifice went away from both of them.

मूलम्

ताभ्यो यज्ञ उदक्रामत् ।

विश्वास-प्रस्तुतिः

तं ब्रह्मक्षत्त्रे अन्वैताम् ।

Haug

The Brahma and Kṣattra followed it.

मूलम्

तं ब्रह्मक्षत्त्रे अन्वैताम् ।

विश्वास-प्रस्तुतिः

यान्येव ब्रह्मण आयुधानि तैर्ब्रह्मान्वैद्यानि क्षत्त्रस्य तैः क्षत्त्रम् ।

Haug

The Brahma followed with all its implements, and the Kṣattra followed (also) with its implements.

मूलम्

यान्येव ब्रह्मण आयुधानि तैर्ब्रह्मान्वैद्यानि क्षत्त्रस्य तैः क्षत्त्रम् ।

विश्वास-प्रस्तुतिः

एतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधानि ।

Haug

The implements of the Brahma are those required for performing a sacrifice.

मूलम्

एतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधानि ।

विश्वास-प्रस्तुतिः

अथैतानि क्षत्त्रस्या ऽऽयुधानि यदश्वरथः कवच इषुधन्व ।

Haug

The implements of the Kṣattra are a horse, carriage, an armour, and a bow with arrow.

मूलम्

अथैतानि क्षत्त्रस्या ऽऽयुधानि यदश्वरथः कवच इषुधन्व ।

विश्वास-प्रस्तुतिः

तं क्षत्त्रमनन्वाप्य न्यवर्तत ।

Haug

The Kṣattra not reaching the sacrifice, returned;

मूलम्

तं क्षत्त्रमनन्वाप्य न्यवर्तत ।

विश्वास-प्रस्तुतिः

आयुधेभ्यो ह स्मास्य विजमानः पराङेवैति ।

Haug

for, frightened by the weapons of the Kṣattra, the sacrifice ran aside.

मूलम्

आयुधेभ्यो ह स्मास्य विजमानः पराङेवैति ।

विश्वास-प्रस्तुतिः

अथैनं ब्रह्मान्वैत्तमाप्नोत्तमाप्त्वा परस्तान्निरुध्यातिष्ठत् ।

Haug

The Brahma then followed the sacrifice, and reached it. Hemming thus the sacrifice in its further course, the Brahma stood still;

मूलम्

अथैनं ब्रह्मान्वैत्तमाप्नोत्तमाप्त्वा परस्तान्निरुध्यातिष्ठत् ।

विश्वास-प्रस्तुतिः

स आप्तः परस्तान्निरुद्धस्तिष्ठञ्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत ।

Haug

the sacrifice reached and hemmed in its course, stood still also, and recognising in the hand of the Brahma its own implements, returned to the Brahma.

मूलम्

स आप्तः परस्तान्निरुद्धस्तिष्ठञ्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत ।

विश्वास-प्रस्तुतिः

तस्माद्धाप्येतर्हि यज्ञो ब्रह्मण्येव ब्राह्मणेषु प्रतिष्ठितः ।

Haug

The sacrifice having thus remained only in the Brahma, it is therefore only placed among the Brahmans (i.e., they alone are allowed to perform it.)

मूलम्

तस्माद्धाप्येतर्हि यज्ञो ब्रह्मण्येव ब्राह्मणेषु प्रतिष्ठितः ।

विश्वास-प्रस्तुतिः

अथैनत्क्षत्त्रमन्वागच्छत्तदब्रवीदुप मा ऽस्मिन्यज्ञे ह्वयस्वेति ।

Haug

The Kṣattra then ran after this Brahma, and said to it, “Allow me to take possession of this sacrifice (which is placed in thee).”

मूलम्

अथैनत्क्षत्त्रमन्वागच्छत्तदब्रवीदुप मा ऽस्मिन्यज्ञे ह्वयस्वेति ।

विश्वास-प्रस्तुतिः

तत्तथेत्यब्रवीत्तद्वै निधाय स्वान्यायुधानि ब्रह्मण एवा ऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति ।

Haug

The Brahma said, “Well, let it be so; lay down thy own weapons, assume by means of the implements of the Brahma (the sacrificial implement) which constitute the Brahma, the form of the Brahma, and return to it!”

मूलम्

तत्तथेत्यब्रवीत्तद्वै निधाय स्वान्यायुधानि ब्रह्मण एवा ऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति ।

विश्वास-प्रस्तुतिः

तथेति ।

Haug

The Kṣattra obeyed,

मूलम्

तथेति ।

विश्वास-प्रस्तुतिः

तत्क्षत्त्रं निधाय स्वान्यायुधानि ब्रह्मण एवा ऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत ।

Haug

laid down its own weapons, assumed, by means of the implements of the Brahma which constitute the Brahma, its form, and returned to it.

मूलम्

तत्क्षत्त्रं निधाय स्वान्यायुधानि ब्रह्मण एवा ऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत ।

विश्वास-प्रस्तुतिः

तस्माद्धाप्येतर्हि क्षत्त्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवा ऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते ।

Haug

Therefore even a Kṣattriya, when he lays down his weapons and assumes the form of the Brahma by means of the sacrificial implements, returns to the sacrifice (he is allowed a share in it.)

मूलम्

तस्माद्धाप्येतर्हि क्षत्त्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवा ऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते ।