१८

विश्वास-प्रस्तुतिः

तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाशदेवज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसः ।

Haug

(On Viśvāmitra’s Descendants. How the Reciters of the Śunaḥsepa story are to be Rewarded by the King. Stanzas. On the Pratigara for the Ṛichas and Stanzas at this Occasion.)

This Riṣi Viśvāmitra had a hundred sons, fifty of them were older than Madhuchhandās, and fifty were younger than he.

मूलम्

तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाशदेवज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसः ।

विश्वास-प्रस्तुतिः

तद्ये ज्यायांसो न ते कुशलं मेनिरे ।

Haug

The older ones were not pleased with (the installation of Śunaḥśepa to the primogeniture).

मूलम्

तद्ये ज्यायांसो न ते कुशलं मेनिरे ।

विश्वास-प्रस्तुतिः

ताननु व्याजहारान्तान्वः प्रजा भक्षीष्टेति ।

Haug

Viśvāmitra then pronounced against them the curse, “You shall have the lowest castes for your descendants.”

मूलम्

ताननु व्याजहारान्तान्वः प्रजा भक्षीष्टेति ।

विश्वास-प्रस्तुतिः

त एते ऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः ।

Haug

Therefore are many of the most degraded classes of men, the rabble for the most part, such as the Andhras, Puṇḍras, Śabaras, Palindas, and Mûtibas, descendants of Viśvāmitra.

मूलम्

त एते ऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः ।

विश्वास-प्रस्तुतिः

स होवाच मधुच्छन्दाः पञ्चाशता सार्धं यन्नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम् पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति ।

Haug

But Madhuchhandās, with the fifty younger sons, said, “What our father approves of, by that we abide; we all accord to thee (Śunaḥśepa) the first rank, and we will come after thee!”

मूलम्

स होवाच मधुच्छन्दाः पञ्चाशता सार्धं यन्नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम् पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति ।

विश्वास-प्रस्तुतिः

अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ ये मानं मे ऽनुगृह्णन्तो वीरवन्तमकर्त मा ।

Haug

Viśvāmitra, delighted (at this answer) then praised these sons with the following verses: “Ye my sons will have abundance of cattle and children, for you have made me rich in children by consenting to my wish.”

मूलम्

अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ ये मानं मे ऽनुगृह्णन्तो वीरवन्तमकर्त मा ।

विश्वास-प्रस्तुतिः

पुर एत्रा वीरवन्तो देवरातेन गाथिनाः सर्वे राध्याः स्थ पुत्राः ।

Haug

“Ye sons of Gāthi, blessed with children, you all will be successful when headed by Devarāta; he will (always) lead you on the path of truth.”

मूलम्

पुर एत्रा वीरवन्तो देवरातेन गाथिनाः सर्वे राध्याः स्थ पुत्राः ।

विश्वास-प्रस्तुतिः

एष वः सद्विवाचनम् एष वः कुशिका वीरो देवरातस्तमन्वित युष्मांश्च दायं म उपेता विद्यां यामु च विद्मसि ।

Haug

“This Devarāta, is your master (man); follow him, ye Kuśikas! He will exercise the paternal rights over you as his heritage from me, and take possession of the sacred knowledge that we have.”

मूलम्

एष वः सद्विवाचनम् एष वः कुशिका वीरो देवरातस्तमन्वित युष्मांश्च दायं म उपेता विद्यां यामु च विद्मसि ।

विश्वास-प्रस्तुतिः

ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः ।

Haug

“All the true sons of Viśvāmitra, the grandsons of Gāthi, who forthwith stood with Devarāta, were blessed with wealth for their own welfare and renown.”

मूलम्

ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः ।

विश्वास-प्रस्तुतिः

अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः जह्नूनां चा ऽऽधिपत्ये दैवे वेदे च गाथिनाम् ।

Haug

“Devarāta is called the Riṣi who entered on two heritages, the royal dignity of Jahnû’s house, and the divine knowledge of Gāthi’s stem.”[13]

Haug - Notes

[13]Jahnû is the ancestor of Ajîgarta, and Gâthi the father of Viśvâmitra.

मूलम्

अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः जह्नूनां चा ऽऽधिपत्ये दैवे वेदे च गाथिनाम् ।

विश्वास-प्रस्तुतिः

तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानम् ।

Haug

This is the story of Śunaḥśepa contained in the stanzas which are beyond the number of the hundred Rik verses[14] (recited along with them).

Haug - Notes

[14]Sây, says that ninety-seven out of them had been seen by Śunaḥśepa and three by another Riṣi. The term paraṣik-śata gâtham âkhyânam means, the “story which contains besides one hundred Rik verses Gâthâs (stanzas) also.” The number of the latter is thirty-one.

मूलम्

तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानम् ।

विश्वास-प्रस्तुतिः

तद्धोता राज्ञे ऽभिषिक्ताया ऽऽचष्टे हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति ।

Haug

The Hotar when sitting on a gold embroidered carpet, recites them to the king, after he has been sprinkled with the sacred water. The Adhvaryu who repeats the responses sits likewise on a gold embroidered carpet.

मूलम्

तद्धोता राज्ञे ऽभिषिक्ताया ऽऽचष्टे हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति ।

विश्वास-प्रस्तुतिः

यशो वै हिरण्यम् ।

Haug

For gold is glory.

मूलम्

यशो वै हिरण्यम् ।

विश्वास-प्रस्तुतिः

यशसैवैनं तत्समर्धयति ।

Haug

This procures glory for the king (for whom these Gāthās are repeated).

मूलम्

यशसैवैनं तत्समर्धयति ।

विश्वास-प्रस्तुतिः

ओमित्यृचः प्रतिगर एवं तथेति गाथायाः ।

Haug

Om is the Adhvaryu’s response to a Rich (repeated by the Hotar), and evaṁ tathā (thus in this way it is) that to a Gāthā (recited by the Hotar).

मूलम्

ओमित्यृचः प्रतिगर एवं तथेति गाथायाः ।

विश्वास-प्रस्तुतिः

ओमिति वै दैवं तथेति मानुषम् ।

Haug

For Om is divine (therefore applied to ṛichas, which are a divine revelation), and tathā human.

मूलम्

ओमिति वै दैवं तथेति मानुषम् ।

विश्वास-प्रस्तुतिः

दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति ।

Haug

By means of the divine (om) and human (tathā) responses, the Adhvaryu makes the king free from sin and fault.

मूलम्

दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति ।

विश्वास-प्रस्तुतिः

तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पं चनैनः परिशिष्यते ।

Haug

Therefore any king who might be a conqueror (and consequently by shedding blood a sinner), although he might not bring a sacrifice, should have told the story of Śunaḥśepa. (If he do so) then not the slightest trace of sin (and its consequences) will remain in him.

मूलम्

तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पं चनैनः परिशिष्यते ।

विश्वास-प्रस्तुतिः

सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवा ऽऽसने श्वेतश्चाश्वतरीरथो होतुः ।

Haug

He must give a thousand cows to the teller of this story, and a hundred to him who makes the responses (required); and to each of them the (gold embroidered) carpet on which he was sitting; to the Hotar, besides, a silver decked carriage drawn by mules.

मूलम्

सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवा ऽऽसने श्वेतश्चाश्वतरीरथो होतुः ।

विश्वास-प्रस्तुतिः

पुत्रकामा हाप्याख्यापयेन् ।

Haug

Those who wish for children, should also have told this story;

मूलम्

पुत्रकामा हाप्याख्यापयेन् ।

विश्वास-प्रस्तुतिः

लभन्ते ह पुत्राँल्लभन्ते ह पुत्रान् ।

Haug

then they certainly will be blessed with children.

मूलम्

लभन्ते ह पुत्राँल्लभन्ते ह पुत्रान् ।