१८

तस्य ह विश्वामित्रस्यैकशतम्पुत्रा आसुः पञ्चाशदेव ज्यायांसो मधुछन्दसः पञ्चाशत्कनीयांसस्तद्ये ज्यायांसो न ते कुशलम्मेनिरे ताननुव्याजहारान्तावः प्रजा भक्षीष्टेति त एतेऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो भवन्ति वैश्वामित्रा दस्यूनाम्भूयिष्ठाः स होवाच मधुछन्दाः पञ्चाशता सार्धं यन्नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम्पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीत्यथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ ये मानम्मेऽनुगृह्णन्तो वीरवन्तमकर्त मा पुरएत्रा वीरवन्तो देवरातेन गाथिनाः सर्वे राध्याः स्थ पुत्रा एष वः सद्विवाचनमेष वः कुशिका वीरो देवरातस्तमन्वित युष्मांश्च दायम्म उपेता विद्यां यामु च विद्मसि ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः अधीयत देवरातो रिक्थयोरुभयोरृषिः जह्नूनां चाधिपत्ये दैवे वेदे च गाथिनाम् तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानं तद्धोता राज्ञेऽभिषिक्तायाचष्टे हिर-ण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत्समर्धयत्योमित्यृचः प्रतिगर एवं तथेति गाथाया ओमिति वै दैवं तथेति मानुषं दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति तस्माद्यो राजाऽविजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पं चनैनः परिशिष्यते सहस्रमाख्यात्रे दद्याच्छतम्प्रतिगरित्र एते चैवासने श्वेतश्चाश्वतरीरथो होतुः पुत्रकामा हाप्याख्यापयेरँ ल्लभन्ते ह

पुत्राँ ल्लभन्ते ह पुत्रान् १८