१७

तमृत्विज ऊचुस्त्वमेव नोऽस्याह्नः संस्थामधिगछेत्यथ हैतं शुनःशेपोऽञ्जःसवं ददर्श तमेताभिश्चतसृभिरभिसुषाव यच्चिद्धि त्वं गृहेगृह इत्यथैनं द्रो णकलशम-भ्यवनिनायोच्छिष्टं चम्वोर्भरेत्येतयर्चाथ हास्मिन्नन्वारब्धे पूर्वाभिश्चतसृभिः सस्वाहाकाराभिर्जुहवां चकाराथैनमवभृथमभ्यवनिनाय त्वं नो अग्ने वरुणस्य विद्वानित्येताभ्यामथैनमत ऊर्ध्वमग्निमाहवनीयमुपस्थापयां चकार शुनश्चि-च्छेपं निदितं सहस्रादित्यथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद स होवा-चाजीगर्तः सौयवसिरृषे पुनर्मे पुत्रं देहीति नेति होवाच विश्वामित्रो देवा वा इमम्मह्यमरासतेति स ह देवरातो वैश्वामित्र आस तस्यैते कापिलेयबाभ्रवाः स होवचाजीगर्तः सौयवसिस्त्वम्वेहि विह्वयावहा इति स होवाचाजीगर्तः सौय-वसिराङ्गिरसो जन्मनास्याजीगर्तिः श्रुतः कविः रिषे पैतामहात्तन्तोर्मापगाः पुनरेहि माम् इति स होवाच शुनःशेपोऽदर्श्स्त्वुआशासहस्तं न यच्छूद्रे ष्वलप्सत गवां त्रीणि शतानि त्वमवृणीथा मदङ्गिर इति स होवाचाजीगर्तः सन्यव-सिस्तद्वै मा तात तपति पापं कर्म मया कृतन्तदहं निह्नवे तुभ्यम्प्रतियन्तु शता गवाम् इति स होवाच शुनःशेपोयः सकृत्पापकं कुर्यात्कुर्यादेनत्ततोऽप-रम्नापागाः शौद्रा न्न्यायादसंधेयं त्वया कृतम् इत्यसंधेयमिति ह विश्वामित्र उपपपाद स होवाच विश्वामित्रो भीम एव सौयवसिः शासेन विशिशासिषुः अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रताम् इति स होवाच शुनःशेपः स वै यथा नो ज्ञपया राजपुत्र तथा वद यथैवाङ्गिरसः सन्नुपेयां तव पुत्रताम् इति स होवाच विश्वामित्रो ज्येष्ठो मे त्वम्पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यातुपेया दैवम्मे दायं तेन वै त्वोपमन्त्रय इति स होवाच शुनःशेपः संजानानेषु वै ब्रूयाः सौहर्द्याय मे श्रियै यथाहम्भरतऋषभोपेयां तव पुत्रताम् इत्यथ ह विश्वामित्रः पुत्राना-मन्त्रयामास मधुछन्दाः शृणोतन ऋषभो रेणुरष्टकः ये केच भ्रातरः स्थनास्मै

ज्यैष्ठ्याय कल्पध्वमिति १७