विश्वास-प्रस्तुतिः
तस्य ह विश्वामित्रो होता ऽऽसीज्जमदग्निरध्वर्युर्वसिष्ठो ब्रह्मा ऽयास्य उद्गाता ।
Haug
(The Sacrifice with the intended Human Victim comes off. Four Great Riṣis were officiating as Priests. Śunaḥśepa prays to the Gods to be Released from the Fearful Death. The Rik verses which he used mentioned, and the different Deities to whom he applied.)
At this sacrifice, Viśvāmitra was his Hotar, Jamadagni his Adhvaryu, Vasishṭha his Brahmâ, and Ayasya his Udgâtar.
मूलम्
तस्य ह विश्वामित्रो होता ऽऽसीज्जमदग्निरध्वर्युर्वसिष्ठो ब्रह्मा ऽयास्य उद्गाता ।
विश्वास-प्रस्तुतिः
तस्मा उपाकृताय नियोक्तारं न विविदुः ।
Haug
After the preliminary ceremonies had been performed, they could not find a person willing to bind him to the sacrificial post.
मूलम्
तस्मा उपाकृताय नियोक्तारं न विविदुः ।
विश्वास-प्रस्तुतिः
स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं नियोक्ष्यामीति ।
Haug
Ajigarta, the son of Suyavasa, then said, “Give me another hundred (cows), and I will bind him.”
मूलम्
स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं नियोक्ष्यामीति ।
विश्वास-प्रस्तुतिः
तस्मा अपरं शतं ददुस्तं स निनियोज ।
Haug
They gave him another hundred, whereupon he bound him.
मूलम्
तस्मा अपरं शतं ददुस्तं स निनियोज ।
विश्वास-प्रस्तुतिः
तस्मा उपाकृताय नियुक्ताया ऽऽप्रीताया पर्यग्निकृताय विशसितारं न विविदुः ।
Haug
After he had been bound, the Aprî verses recited, and the fire carried round him,[9] they could not find a slaughterer.
Haug - Notes
[9]See Ait, Br, 2, 3-5.
मूलम्
तस्मा उपाकृताय नियुक्ताया ऽऽप्रीताया पर्यग्निकृताय विशसितारं न विविदुः ।
विश्वास-प्रस्तुतिः
स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं विशसिष्यामीति ।
Haug
Ajigarta then said, “Give me another hundred, and I will kill him.”
मूलम्
स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं विशसिष्यामीति ।
विश्वास-प्रस्तुतिः
तस्मा अपरं शतं ददुः ।
Haug
They gave him another hundred.
मूलम्
तस्मा अपरं शतं ददुः ।
विश्वास-प्रस्तुतिः
सो ऽसिं निःशान एयाय ।
Haug
He then whetted his knife and went to kill his son.
मूलम्
सो ऽसिं निःशान एयाय ।
विश्वास-प्रस्तुतिः
अथ ह शुनःशेप ईक्षांचक्रे ऽमानुषमिव वै मा विशसिष्यन्ति हन्ताहं देवता उपधावामीति ।
Haug
Śunaḥśepa then got aware that they were going to butcher him just as if he were no man (but a beast.) “Well” said he, “I will seek shelter with the gods.”
मूलम्
अथ ह शुनःशेप ईक्षांचक्रे ऽमानुषमिव वै मा विशसिष्यन्ति हन्ताहं देवता उपधावामीति ।
विश्वास-प्रस्तुतिः
स प्रजापतिमेव प्रथमं देवतानामुपससार कस्य नूनं कतमस्यामृतानामित्येतयर्चा ।
Haug
He applied to Prajāpati, who is the first of the gods, with the verse, kasya nūnam hatamasya (1, 24, 1).
मूलम्
स प्रजापतिमेव प्रथमं देवतानामुपससार कस्य नूनं कतमस्यामृतानामित्येतयर्चा ।
विश्वास-प्रस्तुतिः
तं प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति ।
Haug
Prajāpati answered him, “Agni is the nearest of the gods, go to him.”
मूलम्
तं प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति ।
विश्वास-प्रस्तुतिः
सो ऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा ।
Haug
He then applied to Agni, with the verse, agner vayam prathamasya amrtānām (1, 24, 2).
मूलम्
सो ऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा ।
विश्वास-प्रस्तुतिः
तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति ।
Haug
Agni answered him, “Savitar rules over the creatures, go to him.”
मूलम्
तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति ।
विश्वास-प्रस्तुतिः
तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति ।
Haug
He then applied to Savitar with the three verses (1, 24, 3-5) beginning with, abhi tvā deva savitar.
मूलम्
स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन ।
विश्वास-प्रस्तुतिः
तं सवितोवाच वरुणाय वै राज्ञे नियुक्तो ऽसि तमेवोपधावेति ।
Haug
Savitar answered him, “Thou art bound for Varuṇa, the King, go to him.”
मूलम्
तं सवितोवाच वरुणाय वै राज्ञे नियुक्तो ऽसि तमेवोपधावेति ।
विश्वास-प्रस्तुतिः
स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता ।
Haug
He applied to Varuṇa with the following thirty-one verses (124, 6-25, 21).
मूलम्
स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता ।
विश्वास-प्रस्तुतिः
तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
Haug
Varuṇa then answered him, “Agni is the mouth of the gods, and the most compassionate of them. Praise him now! then we shall release you.”
मूलम्
तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
विश्वास-प्रस्तुतिः
सो ऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या ।
Haug
He then praised Agni with twenty-two verses (1, 26, 1–27, 12).
मूलम्
सो ऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या ।
विश्वास-प्रस्तुतिः
तमग्निरुवाच विश्वान्नु देवान्स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
Haug
Agni then answered, “Praise the Viśve Devas, then we shall release you.”
मूलम्
तमग्निरुवाच विश्वान्नु देवान्स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
विश्वास-प्रस्तुतिः
स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा ।
Haug
He then praised the Viśve Devas with the verse (1, 27, 13), namo mahadbhyo namo arbhakebhyo.
मूलम्
स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा ।
विश्वास-प्रस्तुतिः
तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
Haug
The Viśve Devas answered, “Indra is the strongest, the most powerful, the most enduring, the most true of the gods, who knows best how to bring to an end anything. Praise him, then we shall release you.”
मूलम्
तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
विश्वास-प्रस्तुतिः
स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इति चैतेन सूक्तेनोत्तरस्य च पञ्चदशभिः ।
Haug
He then praised Indra with the hymn (1, 29), yach chid dhi satya somapā, and with fifteen verses of the following one (1, 30, 1-15).
मूलम्
स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इति चैतेन सूक्तेनोत्तरस्य च पञ्चदशभिः ।
विश्वास-प्रस्तुतिः
तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ ।
Haug
Indra, who had become pleased with his praise, presented him with a golden carriage.
मूलम्
तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ ।
विश्वास-प्रस्तुतिः
तमेतया प्रतीयाय शश्वदिन्द्र इति ।
Haug
This present he accepted with the verse, śaśvad indra.
मूलम्
तमेतया प्रतीयाय शश्वदिन्द्र इति ।
विश्वास-प्रस्तुतिः
तमिन्द्र उवाचाश्विनौ नु स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
Haug
Indra then told him, “Praise the Aśvins, then we shall release you.”
मूलम्
तमिन्द्र उवाचाश्विनौ नु स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
विश्वास-प्रस्तुतिः
सो ऽश्विनौ तुष्टावात उत्तरेण तृचेन ।
Haug
He then praised the Aśvins, with the three verses which follow the abovementioned (1, 30, 17-19).
मूलम्
सो ऽश्विनौ तुष्टावात उत्तरेण तृचेन ।
विश्वास-प्रस्तुतिः
तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
Haug
The Aśvins then answered, “Praise Uṣâs (Dawn), then we shall release you.”
मूलम्
तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति ।
विश्वास-प्रस्तुतिः
स उषसं तुष्टावात उत्तरेण तृचेन ।
Haug
He then praised Uṣâs with the three verses which follow the Aśvin verses (1, 30, 20-22).
मूलम्
स उषसं तुष्टावात उत्तरेण तृचेन ।
विश्वास-प्रस्तुतिः
तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचे ऽगद ऐक्ष्वाक आस ।
Haug
As he repeated one verse after the other, the fetters (of Varuṇa) were falling off, and the belly of Harîśchandra became smaller. And, after he had done repeating the last verse, (all) the fetters were taken off, and Harîśchandra restored to health again.
मूलम्
तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचे ऽगद ऐक्ष्वाक आस ।