अथ हैक्ष्वाकं वरुणो जग्राह। तस्य होदरं +++(उदकपूर्णं dropsy-रोगेण)+++ जज्ञे।
तद् उ ह रोहितः शुश्राव।
सोऽरण्याद् ग्रामम् एयाय।
तम् इन्द्रः पुरुषरूपेण पर्येत्योवाच -
““नानाश्रान्ताय श्रीर् अस्ती"ति रोहित शुश्रुम। पापो नृ-षद्-वरो जन, इन्द्र इच् चरतः सखा - चरैवे"ति।
“चरैवे"ति वै मा ब्राह्मणो ऽवोचद् इति ह द्वितीयं संवत्सरम् अरण्ये चचार।
सोऽरण्याद् ग्रामम् एयाय।
तम् इन्द्रः पुरुषरूपेण पर्येत्योवाच -
“पुष्पिण्यौ चरतो जङ्घे, भूष्णुर् आत्मा फल-ग्रहिः, शेरे+++(→शेरते)+++ ऽस्य सर्वे पाप्मानः श्रमेण - प्रपथे हताश् - चरैवे"ति।
“चरैवे"ति वै मा ब्राह्मणो ऽवोचद् इति ह तृतीयं संवत्सरम् अरण्ये चचार।
सोऽरण्याद् ग्रामम् एयाय।
तम् इन्द्रः पुरुषरूपेण पर्येत्योवाच -
“आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः।
शेते निपद्यमानस्य चराति चरतो भगः॥
चरैवे"ति।+++(5)+++
“चरैवे"ति वै मा ब्राह्मणो ऽवोचद् इति ह चतुर्थं संवत्सरम् अरण्ये चचार।
सोऽरण्याद् ग्रामम् एयाय।
तम् इन्द्रः पुरुषरूपेण पर्येत्योवाच -
“+++(अक्षविशेषेषु युगेषु वा)+++ कलिः शयानो भवति, संजिहानस् तु द्वापरः, उत्तिष्ठंस् त्रेता भवति, कृतं सम्पद्यते चरंश् - चरैवे"ति।
“चरैवे"ति वै मा ब्राह्मणो ऽवोचद् इति ह पञ्चमं संवत्सरम् अरण्ये चचार।
सोऽरण्याद् ग्रामम् एयाय।
तम् इन्द्रः पुरुषरूपेण पर्येत्योवाच -
“चरन् वै मधु विन्दति, चरन् स्वादुम् उदुम्बरम्। सूर्यस्य पश्य श्रेमाणं - यो न तन्द्रयते चरंश् - चरैवे"ति।
“चरैवे"ति वै मा ब्राह्मणो ऽवोचद् इति ह षष्ठं संवत्सरम् अरण्ये चचार।
सो ऽजीगर्तं +++(अपत्यत्वेन)+++ सौयवसिम् ऋषिम् अशनायापरीतम् अरण्य उपेयाय।
तस्य ह त्रयः पुत्रा आसुः - शुनः-पुच्छः शुनः-शेपः शुनो-लाङ्गूल इति।
तं होवाच - “ऋषेऽहं ते +++(गवां)+++ शतं ददाम्य्। अहम् एषाम् एकेनात्मानं +++(यागपशुत्वान्)+++ निष्क्रीणा” इति।
स ज्येष्ठम्पुत्रं निगृह्णान उवाच - “न न्व् इमम्” इति।
“नो एवेमम्” इति कनिष्ठम् माता।
तौ ह मध्यमे सम्पादयां चक्रतुः शुनःशेपे।
तस्य ह शतं दत्त्वा, स तम् आदाय सोऽरण्याद् ग्रामम् एयाय।
स पितरम् एत्योवाच - “तत हन्ताहम् अनेनात्मानं निष्क्रीणा” इति।
स वरुणं राजानम् उपससार “+अनेन त्वा यजा” इति।
“तथे"ति, “भूयन्वै ब्राह्मणः क्षत्रियाद्” इति वरुण उवाच।
तस्मा एतं राजसूयं यज्ञ-क्रतुम् प्रोवाच।
तम् एतम् अभिषेचनीये +++(दिने)+++ पुरुषम् पशुम् आलेभे +++(मारणाय)+++ १५
मूलम्
अथ हैक्ष्वाकं वरुणो जग्राह। तस्य होदरं जज्ञे।
तदु ह रोहितः शुश्राव।
सोऽरण्याद्ग्राममेयाय।
तमिन्द्रः पुरुषरूपेण पर्येत्योवाच -
“नाना श्रान्ताय श्रीरस्ती"ति। रोहित शुश्रुम पापो नृषद्वरो जन इन्द्र इच् चरतः सखा चरैवेति चरैवेति वै मा
ब्राह्मणोऽवोचदिति ह द्वितीयं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय
तमिन्द्रः पुरुषरूपेण पर्येत्योवाच पुष्पिण्यौ चरतो जङ्घे
भूष्णुरात्मा फलग्रहिः शेरेऽस्य सर्वे पाप्मानः श्रमेण
प्रपथे हताश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह तृतीयं
संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः
शेते निपद्यमानस्य चराति चरतो भगश् चरैवेति चरैवेति वै मा
ब्राह्म-णोऽवोचदिति ह चतुर्थं संवत्सरमरण्ये चचार
सोऽरण्याद्ग्रामनेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच कलिः
शयानो भवति संजिहानस्तु द्वापरः उत्तिष्ठंस्त्रेता भवति कृतं सम्पद्यते
चरंश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह पञ्चमं
संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः
पुरुषरूपेण पर्येत्योवाच चरन्वै मधु विन्दति चरन्स्वादुमुदुम्बरम्सूर्यस्य
पश्य श्रेमाणं यो न तन्द्र यते चरंश् चरैवेति चरैवेति वै मा
ब्राह्मणोऽवोचदिति ह षष्ठं संवत्सरमरण्ये चचार
सोऽजीगर्तं सौयवसिमृषिमशनायापरीतमरण्य उपेयाय तस्य ह त्रयः पुत्रा आसुः
शुनःपुछः शुनःशेपः शुनोलाङ्गूल इति तं होवाच ऋषेऽहं ते शतं
ददा-म्यहमेषामेकेनात्मानं निष्क्रीणा इति स
ज्येष्ठम्पुत्रं निगृह्णान उवाच न न्विममिति नो एवेममिति कनिष्ठम्माता तौ
ह मध्यमे सम्पादयां चक्रतुः शुनःशेपे तस्य ह शतं दत्त्वा स तमादाय
सोऽरण्याद्ग्राममेयाय स पितरमेत्योवाच तत
हन्ता-हमनेनात्मानं निष्क्रीणा इति स वरुणं
राजानमुपससारानेन त्वा यजा इति तथेति भूयन्वै ब्राह्मणः
क्षत्रियादिति वरुण उवाच तस्मा एतं राजसूयं
यज्ञक्रतुम्प्रोवाच तमेतमभिषेचनीये पुरुषम्पशुमालेभे १५