१४

अथैनम् उवाच +++(नारदः)+++- वरुणं राजानम् उपधाव - “पुत्रो मे जायतां, तेन त्वा यजा” इति।
तथेति स वरुणं राजानम् उपससार - “पुत्रो मे जायतां तेन त्वा यजा” इति।
“तथे"ति।

तस्य ह पुत्रो जज्ञे रोहितो नाम।
तं होवाच “+अजनि वै ते पुत्रो - यजस्व मानेने"ति।
स होवाच - “यदा वै पशुर् निर्दशो+++(=दशाहाद् वृद्धः)+++ भवत्य् - अथ स मेध्यो भवति। निर्दशो न्व् अस्त्व् अथ त्वा यजा”।
“तथे"ति।

स ह निर्दश आस।
तं होवाच - “निर्दशो न्व् अभूद्, यजस्व मानेने"ति।
स होवाच - “यदा वै पशोर् दन्ता जायन्ते - ऽथ स मेध्यो भवति। दन्ता न्व् अस्य जायन्ताम् - अथ त्वा यजा” इति। “तथे"ति।

तस्य ह दन्ता जज्ञिरे।
तं होवाच “+अज्ञत वा अस्य दन्ता - यजस्व मानेने"ति।
स होवाच - “यदा वै पशोर् दन्ताः पद्यन्ते - ऽथ स मेध्यो भवति। दन्ता न्व् अस्य पद्यन्ताम्, अथ त्वा यजा” इति।
“तथे"ति।

तस्य ह दन्ताः पेदिरे।
तं होवाच “+अपत्सत वा अस्य दन्ता - यजस्व मानेने"ति।
स होवाच - “यदा वै पशोर् दन्ताः पुनर् जायन्ते - ऽथ स मेध्यो भवति। दन्ता न्व् अस्य पुनर् जायन्ताम्। अथ त्वा यजा” इति।
“तथे"ति।

तस्य ह दन्ताः पुनर् जज्ञिरे।
तं होवाच “+अज्ञत वा अस्य पुनर् दन्ता। यजस्व मानेने"ति।
स होवाच - “यदा वै क्षत्रियः +++(वर्मादिधरणेन)+++ संनाहुको भवत्य् - अथ स मेध्यो भवति। संनाहं नु प्राप्नोत्व् - अथ त्वा यजा” इति।
“तथे"ति।

स ह संनाहम् प्राप।
तं होवाच - “संनाहं नु प्रापद् - यजस्व मानेने"ति।
स “तथे"त्य् उक्त्वा - पुत्रम् आमन्त्रयाम् आस।
“ततायं वै मह्यं त्वाम् अदद् - आद्धन्त त्वया ऽहम् इमं यजा” इति।
स ह “ने"त्य् उक्त्वा धनुर् आदायाऽरण्यम् अपातस्थौ।
स संवत्सरम् अरण्ये चचार। १४

मूलम्

अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति तथेति स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा इति तथेति तस्य ह पुत्रो जज्ञे रोहितो नाम तं होवाचाजनि वै ते पुत्रो यजस्व मानेनेति स होवाच यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति निर्दशो न्वस्त्वथ त्वा यजा तथेति स ह निर्दश आस तम्होवाच निर्दशो न्वभूद्यजस्व मानेनेति स होवाच यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य जायन्तामथ त्वा यजा इति तथेति तस्य ह दन्ता जज्ञिरे तं होवाचाज्ञत वा अस्य दन्ता यजस्व मानेनेति स होवाच यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति तथेति तस्य ह दन्ताः पेदिरे तं होवाचापत्सत वा अस्य दन्ता यजस्व मानेनेति स होवाच यदा वै पशोर्दन्ताः पुनर्जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति तथेति तस्य ह दन्ताः पुनर्जज्ञिरे तं होवाचाज्ञत वा अस्य पुनर्दन्ता यजस्व मानेनेति स होवाच यदा वै क्षत्रियः संनाहुको भवत्यथ स मेध्यो भवति संनाहं नु प्राप्नोत्वथ त्वा यजा इति तथेति स ह संनाहम्प्राप तं होवाच संनाहं नु प्रापद्यजस्व मानेनेति स तथेत्युक्त्वा पुत्रमामन्त्रयामास ततायं वै मह्यं त्वामददाद्धन्त त्वयाहमिमं यजा

इति स ह नेत्युक्त्वा धनुरादायारण्यमपातस्थौ स संवत्सरमरण्ये चचार १४