१४

विश्वास-प्रस्तुतिः

अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति ।

Haug

(A Son is Born to Hariśchandra. Varuṇa repeatedly requests the King to sacrifice his Son to him; but the Sacrifice is under different pretences always Put Off by the King.)

Nârada then told him, “Go and beg of Varuṇa, the king, that he might favour you with the birth of a son (promising him at the same time) to sacrifice to him this son when born.”

मूलम्

अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति ।

विश्वास-प्रस्तुतिः

तथेति स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा इति ।

Haug

He went to Varuṇa, the king, praying, “Let a son be born to me; I will sacrifice him to thee.”

मूलम्

तथेति स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा इति ।

विश्वास-प्रस्तुतिः

तथेति तस्य पुत्रो जज्ञे रोहितो नाम ।

Haug

Then a son, Rohita by name, was born to him.

मूलम्

तथेति तस्य पुत्रो जज्ञे रोहितो नाम ।

विश्वास-प्रस्तुतिः

तं होवाचाजनि वै ते पुत्रो यजस्व मा ऽनेनेति ।

Haug

Varuṇa said to him, “A son is born to thee, sacrifice him to me.”

मूलम्

तं होवाचाजनि वै ते पुत्रो यजस्व मा ऽनेनेति ।

विश्वास-प्रस्तुतिः

स होवाच यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति ।

Haug

Hariśchandra said, “An animal is fit for being sacrificed, when it is more than ten days old.

मूलम्

स होवाच यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति ।

विश्वास-प्रस्तुतिः

निर्दशो न्वस्त्वथ त्वा यजा तथेति ।

Haug

Let him reach this age, then I will sacrifice him to thee.”

मूलम्

निर्दशो न्वस्त्वथ त्वा यजा तथेति ।

विश्वास-प्रस्तुतिः

स ह निर्दश आस ।

Haug

After Rohita had passed the age of ten days,

मूलम्

स ह निर्दश आस ।

विश्वास-प्रस्तुतिः

तं होवाच निर्दशो न्वभूद्यजस्व मा ऽनेनेति ।

Haug

Varuṇa said to him, “He is now past ten days, sacrifice him to me.”

मूलम्

तं होवाच निर्दशो न्वभूद्यजस्व मा ऽनेनेति ।

विश्वास-प्रस्तुतिः

स होवाच यदा वै पशोर्दन्ता जायन्ते ऽथ स मेध्यो भवति ।

Haug

Hariśchandra answered, “An animal is fit for being sacrificed when its teeth come.

मूलम्

स होवाच यदा वै पशोर्दन्ता जायन्ते ऽथ स मेध्यो भवति ।

विश्वास-प्रस्तुतिः

दन्ता न्वस्य जायन्तामथ त्वा यजा इति ।

Haug

Let his teeth come, then I will sacrifice him to thee.”

मूलम्

दन्ता न्वस्य जायन्तामथ त्वा यजा इति ।

विश्वास-प्रस्तुतिः

तथेति तस्य ह दन्ता जज्ञिरे ।

Haug

After his teeth had come[7],

Haug - Notes

[7]The words, ajnatavâi and apatsatavâi, are a kind of infinitive.

मूलम्

तथेति तस्य ह दन्ता जज्ञिरे ।

विश्वास-प्रस्तुतिः

तं होवाचाज्ञत वा अस्य दन्ता यजस्व मा ऽनेनेति ।

Haug

Varuṇa said to Hariśchandra, “His teeth have now come, sacrifice him to me.”

मूलम्

तं होवाचाज्ञत वा अस्य दन्ता यजस्व मा ऽनेनेति ।

विश्वास-प्रस्तुतिः

स होवाच यदा वै पशोर्दन्ताः पद्यन्ते ऽथ स मेध्यो भवति ।

Haug

He answered, “An animal is fit for being sacrificed when its teeth fall out.

मूलम्

स होवाच यदा वै पशोर्दन्ताः पद्यन्ते ऽथ स मेध्यो भवति ।

विश्वास-प्रस्तुतिः

दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति ।

Haug

Let his teeth fall out, then I will sacrifice him to thee.”

मूलम्

दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति ।

विश्वास-प्रस्तुतिः

तथेति तस्य ह दन्ता पेदिरे ।

Haug

His teeth fell out.

मूलम्

तथेति तस्य ह दन्ता पेदिरे ।

विश्वास-प्रस्तुतिः

तं होवाचापत्सत वा अस्य दन्ता यजस्व मा ऽनेनेति ।

Haug

He then said, “His teeth are falling out, sacrifice him to me.”

मूलम्

तं होवाचापत्सत वा अस्य दन्ता यजस्व मा ऽनेनेति ।

विश्वास-प्रस्तुतिः

स होवाच यदा वै पशोर्दन्ताः पुनर्जायन्ते ऽथ स मेध्यो भवति ।

Haug

He said, “An animal is fit for being sacrificed when its teeth have come again.

मूलम्

स होवाच यदा वै पशोर्दन्ताः पुनर्जायन्ते ऽथ स मेध्यो भवति ।

विश्वास-प्रस्तुतिः

दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति ।

Haug

Let his teeth come again, then I will sacrifice him to thee.”

मूलम्

दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति ।

विश्वास-प्रस्तुतिः

तथेति तस्य ह दन्ताः पुनर्जज्ञिरे ।

Haug

His teeth came again.

मूलम्

तथेति तस्य ह दन्ताः पुनर्जज्ञिरे ।

विश्वास-प्रस्तुतिः

तं होवाचाज्ञत वा अस्य पुनर्दन्ता यजस्व मा ऽनेनेति ।

Haug

Varuṇa said, “His teeth have now come again, sacrifice him to me.”

मूलम्

तं होवाचाज्ञत वा अस्य पुनर्दन्ता यजस्व मा ऽनेनेति ।

विश्वास-प्रस्तुतिः

स होवाच यदा वै क्षत्रियः संनाहुको भवत्यथ स मेध्यो भवति ।

Haug

He answered, “A man of the warrior caste is fit for being sacrificed only after having received his full armour.

मूलम्

स होवाच यदा वै क्षत्रियः संनाहुको भवत्यथ स मेध्यो भवति ।

विश्वास-प्रस्तुतिः

संनाहं नु प्राप्नोत्वथ त्वा यजा इति ।

Haug

Let him receive his full armour, then I will sacrifice him to thee.”

मूलम्

संनाहं नु प्राप्नोत्वथ त्वा यजा इति ।

विश्वास-प्रस्तुतिः

तथेति स ह संनाहं प्राप ।

Haug

He then was invested with the armour.

मूलम्

तथेति स ह संनाहं प्राप ।

विश्वास-प्रस्तुतिः

तं होवाच संनाहं नु प्राप्नोद्यजस्व मा ऽनेनेति ।

Haug

Varuṇa then said, “He has now received the armour, sacrifice him to me.”

मूलम्

तं होवाच संनाहं नु प्राप्नोद्यजस्व मा ऽनेनेति ।

विश्वास-प्रस्तुतिः

स तथेत्युक्त्वा पुत्रमामन्त्रयामास ततायं वै मह्यं त्वामददाद्धन्त त्वया ऽहमिमं यजा इति ।

Haug

After having thus spoken, he called his son, and told him, “Well, my dear, to whom who gave thee unto me, I will sacrifice thee now.”

मूलम्

स तथेत्युक्त्वा पुत्रमामन्त्रयामास ततायं वै मह्यं त्वामददाद्धन्त त्वया ऽहमिमं यजा इति ।

विश्वास-प्रस्तुतिः

स ह नेत्युक्त्वा धनुरादायारण्यमुपातस्थौ ।

Haug

But the son said, “No, no,” took his bow and absconded to the wilderness,

मूलम्

स ह नेत्युक्त्वा धनुरादायारण्यमुपातस्थौ ।

विश्वास-प्रस्तुतिः

स संवत्सरमरण्ये चचार ।

Haug

where he was roaming about for a year.

मूलम्

स संवत्सरमरण्ये चचार ।