हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजापुत्र आस।
तस्य ह शतं जाया बभूवुः।
तासु पुत्रं न लेभे।
तस्य ह पर्वत-नारदौ गृह ऊषतुः।
स ह नारदम् पप्रछ -
“यं न्व् इमम् पुत्रम् इछन्ति, ये विजानन्ति, ये च +++(पशवः)+++ - किं स्वित् पुत्रेण विन्दते? तन् म आचक्ष्व नारदे"ति।
स एकया +++(पङ्क्त्या)+++ पृष्टो दशभिः +++(पङ्क्तिभिः)+++ प्रत्युवाच -
- १ ऋणम् अस्मिन् संनयत्य्, अमृतत्वं च गछति, पिता पुत्रस्य जातस्य पश्येच् चेज् जीवतो मुखम्।
- २ यावन्तः पृथिव्याम् भोगा, यावन्तो जातवेदसि, यावन्तो अप्सु प्राणिनाम्- भूयान् पुत्रे पितुस् ततः।
- ३ शश्वत् पुत्रेण पितरो ऽत्यायन् बहुलं तमः। आत्मा हि जज्ञ आत्मनः। स इरावत्य्+++(=अन्नवत्य्)+++ अतितारिणी +++(नौः)+++।
- ४ “किं नु मलम् +++(गार्हस्थ्ये)+++? किम् अजिनम् +++(ब्रह्मचर्ये)+++? किमु श्मश्रूणि +++(वानप्रस्थे)+++? किं तपः +++(सन्न्यासे)+++? पुत्रम् ब्रह्माण इछध्वं” - स वै लोको ऽवदावदः।
- ५ अन्नं ह प्राणः, शरणं ह वासो, रूपं हिरण्यम्, पशवो विवाहाः, सखा ह जाया, कृपणं ह दुहिता, ज्योतिर् ह पुत्रः परमे व्योमन्।
- ६ पतिर् जायाम् प्रविशति, गर्भो भूत्वा स मातरन्, तस्याम् पुनर् नवो भूत्वा दशमे मासि जायते। तज् जाया जाया भवति।
- ७ यद् अस्यां जायते पुनः - आभूतिर् एषा। भूतिर् बीजम्। एतन् निधीयते।
- ८ देवाश् चैताम् +++(जायाम्)+++ ऋषयश् च तेजः समभरन् महत्।
- ९ देवा मनुष्यान् अब्रुवन्न् - “एषा वो जननी पुनः। नापुत्रस्य लोकोऽस्ती"ति। तत् सर्वे पशवो विदुः। तस्मात् तु +++(पशुषु)+++ पुत्रो मातरं स्वसारं चाधिरोहति।
- १० एष पन्था उरुगायः, सुशेवो - यम् पुत्रिण आक्रमन्ते विशोकाः। तम् पश्यन्ति पशवो वयांसि च। तस्मात् ते मात्रापि मिथुनी-भवन्ति
+इति हास्मा आख्याय १३
मूलम्
हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजापुत्र आस तस्य ह शतं जाया बभूवुस्तासु पुत्रं न लेभे तस्य ह पर्वतनारदौ गृह ऊषतुः स ह नारदम्पप्रछ यं न्विमम्पुत्रमिछन्ति ये विजानन्ति ये च न किं स्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारदेति स एकया पृष्टो दशभिः प्रत्युवाच ऋणमस्मिन्संनयत्यमृतत्वं च गछति पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्यावन्तः पृथिव्याम्भोगा यावन्तो जातवेदसि यावन्तो अप्सु प्राणिनाम्भूयान्पुत्रे पितुस्ततः शश्वत्पुत्रेण पित-रोऽत्यायन्बहुलं तमः आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी किं नु मलं किमजिनं किमु श्मश्रूणि किं तपः पुत्रम्ब्रह्माण इछध्वं स वै लोकोऽवदावदः अन्नं ह प्राणः शरणं ह वासो रूपं हिरण्यम्पशवो विवाहाः सखा ह जाया कृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन्पतिर्जायाम्प्रविशति गर्भो भूत्वा स मातरन्तस्याम्पुनर्नवो भूत्वा दशमे मासि जायते तज्जाया जाया भवति यदस्यां जायते पुनः आभूतिरेषाभूतिर्बीजमेतन्निधीयते देवाश्चैतामृषयश्च तेजः समभरन्महत्देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः नापुत्रस्य लोकोऽस्ती-ति तत्सर्वे पशवो विदुः तस्मात्तु पुत्रो मातरं स्वसारं चाधिरोहति एष पन्था उरुगायः सुशेवो यम्पुत्रिण आक्रमन्ते विशोकाः तम्पश्यन्ति पशवो वयांसि च तस्मात्ते मात्रापि मिथुनीभवन्तीति हास्मा आख्याय १३