विश्वास-प्रस्तुतिः
हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजा ऽपुत्र आस ।
Haug
(The Story of Sunaḥśepa)
(King Hariśchandra wishes for a Son. Stanzas praising the Possession of a Son.*)
Haríśchandra, the son of Vedhas, of the Ikṣvāku race, was a king who had no son.
मूलम्
हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजा ऽपुत्र आस ।
विश्वास-प्रस्तुतिः
तस्य ह शतं जाया बभूवुस्तासु पुत्रं न लेभे ।
Haug
Though he had a hundred wives, they did not give birth to a son.
मूलम्
तस्य ह शतं जाया बभूवुस्तासु पुत्रं न लेभे ।
विश्वास-प्रस्तुतिः
तस्य ह पर्वतनारदौ गृह ऊषतुः ।
Haug
In his house there lived the Riṣis, Parvata and Nārada.
मूलम्
तस्य ह पर्वतनारदौ गृह ऊषतुः ।
विश्वास-प्रस्तुतिः
स ह नारदं पप्रच्छ ।
Haug
Once the king addressed to Nārada (the following stanza) :
मूलम्
स ह नारदं पप्रच्छ ।
विश्वास-प्रस्तुतिः
यं न्विमं पुत्रमिच्छन्ति ये विजानन्ति ये च न किंस्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारदेति ।
Haug
“Since all beings, those endowed with reason (men) as well as those who are without it (beasts) wish for a son, what is the fruit to be obtained by having a son ? This tell me, O Nārada?”
मूलम्
यं न्विमं पुत्रमिच्छन्ति ये विजानन्ति ये च न किंस्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारदेति ।
विश्वास-प्रस्तुतिः
स एकया पृष्टो दशभिः प्रत्युवाच ।
Haug
Nārada thus addressed in one stanza, replied in (the following) ten :
मूलम्
स एकया पृष्टो दशभिः प्रत्युवाच ।
विश्वास-प्रस्तुतिः
ऋणमस्मिन्संनयत्यमृतत्वं च गच्छति पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ।
Haug
- The father pays a debt in his son, and gains immortality, when he beholds the face of a son living who was born to him.
मूलम्
ऋणमस्मिन्संनयत्यमृतत्वं च गच्छति पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ।
विश्वास-प्रस्तुतिः
यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः ।
Haug
- The pleasure which a father has in his son, exceeds the enjoyment of all other beings, be they on the earth, or in the fire, or in the water.
मूलम्
यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः ।विश्वास-प्रस्तुतिः
शश्वत्पुत्रेण पितरो ऽत्यायन्बहुलं तमः ।
Haug
- Fathers always overcome great difficulties through a son.
मूलम्
शश्वत्पुत्रेण पितरो ऽत्यायन्बहुलं तमः ।
विश्वास-प्रस्तुतिः
आत्मा हि जज्ञ आत्मनः ।
Haug
(In him) the Self is born out of Self.
मूलम्
आत्मा हि जज्ञ आत्मनः ।
विश्वास-प्रस्तुतिः
स इरावत्यतितारिणी ।
Haug
The son is like a well-provisioned boat, which carries him over.
मूलम्
स इरावत्यतितारिणी ।
विश्वास-प्रस्तुतिः
किं नु मलं किमजिनं किमु श्मश्रूणि किं तपः ।
Haug
- “What is the use of living unwashed,[1] wearing the goatskin,[2] and beard[3]? What is the use of performing austerities ?”[4]
Haug - Notes
[1]Here the Gṛihastha is meant.
[2]The Brahmachâri is alluded.
[3]The Vanaprustha, or hermit is to be understood.
[4]The Parivrâjaka, or religious mendicant is meant.
मूलम्
किं नु मलं किमजिनं किमु श्मश्रूणि किं तपः ।
विश्वास-प्रस्तुतिः
पुत्रं ब्रह्माण इच्छध्वं स वै लोको ऽवदावदः ।
Haug
“You should wish for a son, O Brahmans!” Thus people talk of them[5] (who forego the married life on account of religious devotion).
Haug - Notes
[5]Avadavadaḥ, i. e., pronouncing a blame. Sây. takes the word in a different sense, “not deserving blame on account of being free from guilt.” This explanation is artificial.
मूलम्
पुत्रं ब्रह्माण इच्छध्वं स वै लोको ऽवदावदः ।
विश्वास-प्रस्तुतिः
अन्नं ह प्राणः शरणं ह वासो रूपं हिरण्यं पशवो विवाहाः ।
Haug
Food preserves life, clothes protect from cold, gold (golden ornaments) gives beauty, marriages produce wealth in cattle;[6]
Haug - Notes
[6]At certain kinds of marriages, the so-called Arṣa (the Riṣi marriage), a pair of cows was given as a dowry, See Aśval, Grihy. Sûtr. 1, 6.
मूलम्
अन्नं ह प्राणः शरणं ह वासो रूपं हिरण्यं पशवो विवाहाः ।
विश्वास-प्रस्तुतिः
सखा ह जाया कृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन् ।
Haug
the wife is the friend, the daughter object of compassion, but the son shines as his light in the highest heaven.
मूलम्
सखा ह जाया कृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन् ।
विश्वास-प्रस्तुतिः
पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम् ।
Haug
- The husband enters the wife (in the shape of seed), and, when the seed is changed to an embryo, he makes her mother,
मूलम्
पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम् ।
विश्वास-प्रस्तुतिः
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते ।
Haug
from whom, after having become regenerated, in her, he is born in the tenth month.
मूलम्
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते ।
विश्वास-प्रस्तुतिः
तज्जाया जाया भवति यदस्यां जायते पुनः ।
Haug
- His wife is only then a real wife (jāyā, from jan, to be born) when he is born in her again.
मूलम्
तज्जाया जाया भवति यदस्यां जायते पुनः ।
विश्वास-प्रस्तुतिः
आभूतिरेषा भूतिर्बीजमेतन्निधीयते ।
Haug
The seed which is placed in her, she developes to a being and sets it forth.
मूलम्
आभूतिरेषा भूतिर्बीजमेतन्निधीयते ।
विश्वास-प्रस्तुतिः
देवाश्चैतामृषयश्च तेजः समभरन्महत् ।
Haug
- The Gods and the Riṣis endowed her with great beauty.
मूलम्
देवाश्चैतामृषयश्च तेजः समभरन्महत् ।
विश्वास-प्रस्तुतिः
देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः ।
Haug
The gods then told to men, this being is destined to produce you again.
मूलम्
देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः ।
विश्वास-प्रस्तुतिः
नापुत्रस्य लोको ऽस्तीति तत्सर्वे पशवो विदुः ।
Haug
- He who has no child, has no place (no firm footing). This even know the beasts.
मूलम्
नापुत्रस्य लोको ऽस्तीति तत्सर्वे पशवो विदुः ।
विश्वास-प्रस्तुतिः
तस्मात् पुत्रो मातरं स्वसारं चाधिरोहति ।
Haug
Thence the son cohabits (among beasts even) with his mother and sister.
मूलम्
तस्मात् पुत्रो मातरं स्वसारं चाधिरोहति ।
विश्वास-प्रस्तुतिः
एष पन्था उरुगायः सुशेवो यं पुत्रिण आक्रमन्ते विशोकाः ।
Haug
This is the broad, well-trodden path on which those who have sons walk free from sorrows.
मूलम्
एष पन्था उरुगायः सुशेवो यं पुत्रिण आक्रमन्ते विशोकाः ।
विश्वास-प्रस्तुतिः
तं पश्यन्ति पशवो वयांसि च तस्मात्ते मात्रा ऽपि मिथुनी भवन्तीति ।
Haug
Beasts and birds know it; thence they cohabit (even) with their own mothers.
मूलम्
तं पश्यन्ति पशवो वयांसि च तस्मात्ते मात्रा ऽपि मिथुनी भवन्तीति ।
विश्वास-प्रस्तुतिः
हास्मा आख्याय ।
Haug
Thus he told.
मूलम्
हास्मा आख्याय ।