१२

तदाहुर्यस्याग्निमनुद्धृतमादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वा प्रणीतो वा प्राग्घो-मादुपशाम्येत्का तत्र प्रायश्चित्तिरिति हिरण्यम्पुरस्कृत्य सायमुद्धरेज् ज्योतिर्वै शुक्रं हिरण्यं ज्योतिः शुक्रमसौ तदेव तज्ज्योतिः शुक्रम्पश्यन्नुद्धरति रजतमन्तर्धाय प्रातरुद्धरेदेतद्रा त्रिरूपम्पुरा सम्भेदाच्छायानामाहवनीयमुद्धरे-न्मृत्युर्वै तमश्छाया तेनैव तज्ज्योतिषा मृत्युं तमश्छायां तरति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वा श्वा वा प्रतिपद्येत का तत्र प्रायश्चित्तिरिति नैनन्मनसि कुर्यादित्याहुरात्मन्यस्य हिता भवन्तीति तच्चेन्मनसि कुर्वीत गार्हपत्यादविछिन्नामुदकधारां हरेत्तन्तुं तन्व-न्रजसो भानुमन्विहीत्याहवनीयात्सा तत्र प्रायश्चित्तिस्तदाहुः कथमग्नीनन्वा-दधानोऽन्वाहार्यपचनमाहारयेन्नाहारयेदिति आहारयेदित्याहुः प्राणान्वा एषो-ऽभ्यात्मं धत्ते योऽग्नीनाधत्ते तेषामेषोऽन्नादतमो भवति यदन्वाहार्यप-चनस्तस्मिन्नेतामाहुतिं जुहोत्यग्नयेऽन्नादायान्नपतये स्वाहेत्यन्नादो हान्नपतिर्भ-वत्यश्नुते प्रजयान्नाद्यं य एवं वेदान्तरेण गार्हपत्याहवनीयौ होष्यन्संचरेतैतेन ह वा एनं संचरमाणमग्नयो विदुरयमस्मासु होष्यतीत्येतेन ह वा अस्य संचर-माणस्य गार्हपत्याहवनीयौ पाप्मानमपहतः सोऽपहतपाप्मोर्ध्वः स्वर्गं लोक-मेतीति वै ब्राह्मणमुदाहरन्ति तदाहुः कथमग्नीन्प्रवत्स्यन्नुपतिष्ठेत प्रोष्य वा प्रत्येत्याहरहर्वेति तूष्णीमित्याहुस्तूष्णीं वै श्रेयस आकाङ्क्षन्तेऽथाप्याहुरहरहर्वा एते यजमानस्याश्रद्धयोद्वासनात्प्रप्लावनाद्बिभ्यति तानुपतिष्ठेतैवाभयं वोऽभयम्मेऽस्त्वित्यभयं हैवास्मै भवत्यभयं हैवास्मै भवति १२