११

तदाहुर्यद्दर्शपूर्णमासयोरुपवसति न ह वा अव्रतस्य देवा हविरश्नन्ति तस्मा-दुपवसत्युत मे देवा हविरश्नीयुरिति पूर्वाम्पौर्णमासीमुपवसेदिति पैङ्ग्यमु-त्तरामिति कौषीतकं या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूर्याम्पर्यस्तमियादभ्युदियादिति सा तिथिः पूर्वाम्पौर्णमासीमुपवसेदनिर्ज्ञाय पुरस्तादमावास्यायां चन्द्र मसं यदुपैति यद्यजते तेन सोमं क्रीणन्ति तेनोत्तरामुत्तरामुपवसेदुत्तराणि ह वै सोमो

यजते सोममनु दैवतमेतद्वै देवसोमं यच्चन्द्र मस्तस्मादुत्तरामुपवसेत् ११